लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत् । श्रीविश्वावर्त्तस्तु विंशत्या स्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्यवस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः ।
मोक्षलक्ष्मीसमाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतां दर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तोत्रमाह-
न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् ॥१॥
(भाषाटोका समन्वय-सहित )
यस्य = जिसको
आभासः- प्रकाश
न ध्यायतः= बिना ध्यान के
स्यात्=प्राप्त हो,
(च= तथा )
तं = उस
न जपतः=बिना जप के
भक्ति-शालिनं = भक्ति-शोभित
अविधि-पूर्वकम् = विधिरहित रूप से (व्यक्ति ) की
एवमेव = ऐसे ही (अर्थात् ईश्वर के अनुग्रह से ही)
(वयं = हम)
नुमः = स्तुति करते हैं ॥ १ ॥
शिवः = शिवात्मा प्रभु का
यस्य एवमेव-मायीयोपायं विना, शिवाभासः-शिवरूपस्वात्मप्रथा स्यात् , तं, भक्त्यैव-समावेशमय्या शालिनं-श्लाघमानं न तु तदतिरिक्तफलाकांक्षाकलङ्कितं भक्तजनं, नुमः-भक्तिचमत्कारवशप्रथितशिवभट्टारकाभेदभक्तिमन्नतिमुखेन तदभिन्नशिवावेशमया भवाम इति यावत् । 'एवमेव'-इत्यनेन सूचितमलौकिकक्रमं दर्शयति-'न ध्यायत'-इत्यादिना । सर्वस्य हि ध्यानजपप्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्तु अनुपायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्मस्वरूपं सर्वदा स्फुरति । अत एवाह-'अविधिपूर्वकम्' इति ।
१. ग० पु०-श्रीरामराजः-इति पाठः ।