पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमदुत्पलदेवाचार्यविरचिता

श्रीशिवस्तोत्रावली

श्रीमदभिनवगुप्ताचार्यपादपद्मोपजीवि-

श्रीक्षेमराजाचार्यविरचितविवृतिसमेता

राजानकलक्ष्मणविरचितभाषाटीकोपेता च ।
ॐ तत् सत्

श्री विघ्नहर्त्रे नमः।

श्री गुरवे शिवाय नमः।

(श्रीक्षेमराजाचार्यटीका)

ॐ उद्धरत्यन्धतमसाद्विश्वमानन्दवर्षिणी
परिपूर्णा जयत्येका देवी चिच्चन्द्रचन्द्रिका ॥
अभ्यर्थितोऽस्मि बहुभिर्बहुशो भक्तिशालिभिः ।
व्याकरोमि मनाक् श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः॥

 ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि एव तद्वयामिश्राणि


१. ग० पु०-आनन्दकारिणी-इति पाठः ।
२. का. पु०-'अत्यर्थितोऽस्मि' इति पाठः ।
३. एकस्मिन्नेव श्लोके यत्र समन्वयो लगति तन्मुक्तकम् ।