पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - येषां - बौद्धसांख्य मीमांसकादीनां त्वदूषणकथा दूषयित्रात्मक- ग्रस्फुरच्चिद्रूपं त्वत्स्वरूपं विना नोपपद्यते, येषां विचित्रतनुकरणप्रज्ञानां बुद्धिमत्प्रभावं विना सत्तैव नास्ति - इत्यादि युक्तिवृन्दं पतितपार्ष्या- घातकल्पमास्ताम् ॥ १० ॥ - १३८ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः । त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥ ११ ॥ स्थितिः = स्थिति विभो = हे व्यापक ईश्वर ! - बाह्य- = ( भेद - प्रथा रूपी ) बाहरी आन्तर = ( तथा संकल्प विकल्प रूपी ) भीतरी अन्तराय- = विघ्नों की आली - = पंक्तियों से केवले = रहित बने हुए - मम = मेरे चेतसि = हृदय में = यदि त्वयि = ( चित्-स्वरूप ) की चेत् = स्यात् = प्राप्त हो जाय, ( अर्थात् मुझे समावेश - एकाग्रता प्राप्त हो ), ( ततः = तो फिर ) किम् = भला कौन सो अन्यत् = दूसरी वस्तु उपयुज्यते = उपयोग में आ सकती है ( फिर किसी दूसरी चीज़ या उपाय की अपेक्षा नहीं रहेगी । ) ? ॥ ११ ॥ - बाह्याः- शरीरप्रमातृतापेक्षतत्तद्वस्तुसंयोगवियोगादयः । आन्तराः -- बुंद्ध याद्यपेक्षकामनासङ्कल्पादयो ये अन्तराया : - स्वविश्रान्त्युपरोधिनः, तेषामाली - पङ्किस्तया केवले - रहिते, त्वद्विषये चेतसि यदि मम स्थितिः—समावेशैकामता स्यात्, तत्किमन्यदुपयुज्यते; - प्राप्तव्यस्यैव -0 प्राप्तत्वात् ॥ ११ ॥ अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः । अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥ १२ ॥ १. ख० पु० बुद्धयाद्यपेक्षका मनः कल्पनादयः - इति पाठः । ग० पु० बुद्धयाद्य- पेक्षकामनाकल्पनादयः - इति च पाठः । २. घ० पु० ‘तेषामाली पङ्किस्तया' - इति स्थाने 'तैः’ इति पाठः ।