पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् १३५ च, भुवि यश्चन्द्रमाः स त्वदीयआनंन्दरसबिन्दुः गलितः - स्रुतः 1 सूर्यश्च तव सम्बन्धिन: तेजसः कणः प्रसृतः - स्फुरितः । यथागमः 'ज्ञानशक्तिः प्रभोरेषा तपत्यादित्यविग्रहा ॥' स्व० तं०, १० प०, श्लो० ४९९ ॥ 'तपते चन्द्ररूपेण क्रियाशक्तिः परस्य सा ॥' स्व० तं०, १० प०, श्लो० ५०२ ॥ इति । अस्मै - एतदर्थं सूर्यचन्द्रोल्लासिनाय तब यत् तृतीयं नेत्रं तस्मै, बलिं यामः – अत्रैव महावह्निमये मायीयदेहादिप्रमातृतां समर्प याम: । कीदृशाय ? कस्यापि - असामान्यस्य ब्रह्मेन्द्रोपेन्द्राद्यगोचरस्य अलौकिकस्य माहात्म्यस्य एकलक्ष्मणे - असाधारणाभिज्ञानाय | अस्मै इति – तार्थ्ये चतुर्थी ।। ५-६ ।। - तेनैव दृष्टोऽसि भवदर्शनाद्योऽतिहृष्यति । कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥ ७ ॥ ( प्रभो = हे ईश्वर ! ) = असि = है वा = और [ शक्ति- समावेशेन = शक्ति-समा- कथञ्चित् = किसी प्रकार (अर्थात वेश के क्रम से ] शांभव- समावेश के क्रम से ) यः = जो भक्त = भवत् = आप का दर्शनात् = दर्शन कर के अति- = अत्यन्त हृष्यति = आनन्दित हो जाता है, तेन एव = उस ने ( त्वं = आपको ) दृष्टः = देखा - यस्य = जिसे कोऽपि = अलौकिक हर्षः = आनन्द प्राप्त होता है, तेन = उसी ने त्वम् = आप (के तात्विक स्वरूप ) का ईक्षितः = साक्षात्कार किया है ॥७॥ 'उच्चाररहितं वस्तु चेतसैव विचिन्तयन्' ॥ मा० वि० [अ० २, श्लो० २२ । 2, इति शाक्तसमावेशयुक्त्या भवन्तं दृष्ट्वा योऽतिहृष्यति – आनन्दमयो १. ग० पु० आनन्दबिन्दुः – इति पाठः । २. ख० पु० सूर्यचन्द्रोल्लासनाय – इति पाठः । य २३. ग० पु० ब्रह्मोपेन्द्राद्यगोचरस्येति पाठः ।