पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्


विभो = हे व्यापक प्रभु ! ( अहं = मैं ) कदा = भला कब अशेष- सभी जन्तूनां = प्राणियों को तत्त्वतः = यथार्थ रूप में भवत्- आपकी पूजा= पूजा करने में मय- = लगे हुए आत्मनां = स्वरूप वाले ( दृष्ट्वा = देखकर ) दृष्ट्या = ( इस पारमार्थिक ) दृष्टि का आश्रय लेकर अनुमोदित-रस- = आनन्द - रस से आप्लावितः = आप्लावित अर्थात् = व्याप्त स्याम् = हो जाऊं ? ॥ ८ ॥ - सर्वे जन्तवः परमार्थतो यत्किंचित्कुर्वाणा: स्वात्मदेवताविश्रान्तिसार- भवत्पूजामया: । एतेषां सम्बन्धिन्या तत्त्वत्तो दृष्टया - त्वदनुग्रह महि- मोत्थेनं स्वात्मप्रत्यभिज्ञानेन हेतुना, तैरेवानुमोदितः -लाधितो यो रसो- भक्तचानन्दप्रसरस्तेन आप्लावित : - व्याप्तः कदा स्याम् | तत्त्वत इत्या - वृत्त्या योज्यम् । अथ वा अशेषजन्तूनामिति कर्मणि षष्ठी । ततश्चायमर्थ:- कदा अशेषजन्तून् तत्त्वतो भवत्पूजामयान् दृष्टा अनुमोदनरसेन - आनन्दप्रसरेण आप्लावितः स्याम् - इति । अत्रौनुमोदित इति भावे क्तः । उभयत्रापि व्याख्याने 'मत्सम: सर्वोऽस्तु' - इत्याशंसातात्पर्यम् ॥ ८ ॥ - विभो = हे व्यापक स्वामी ! या = जो त्वद्-भक्तिः = ( स्वरूप- समावेश रूपिणी ) आपकी भक्ति ज्ञानस्य परमा भूमि- योगस्य परमा दशा । त्वद्भक्तिर्या विभो कहि - पूर्णा मे स्यात्तदर्थिता ॥ ९ ॥

ज्ञानस्य = ज्ञान की परमा = सर्वोत्कृष्ट भूमिः = अवस्था ( तथा = और ) १. ख० पु० महिमोक्तेनेति पाठः । २. घ० पु० दृष्टया - इति पाठः । ३. ग० पु० अत्रानुमोदितमिति पाठः ।