पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् ईश्वरमभयमुदारं सहसाभिज्ञाय कदा पूर्णमकारणमपहुतात्मानम् । स्वामिजनं लज्जयिष्यामि ॥ ६ ॥ - ( प्रभो = हे प्रभु ! ) ईश्वरम् = सर्व-ऐश्वर्य सम्पन्न = अभयम् = अभय-स्वरूप उदारं = उदार चित्त पूर्णम् = पूर्ण अर्थात् आकांक्षारहित -- अकारणम् = कारण-रहित अर्थात् नित्य स्वरूप ( तथा = और ) अपह्नुत-आत्मानं = (अपनी स्वातंत्र्य- शक्ति से ) छिपाये हुए स्वरूप वाले - स्वामि-जनं = ( प ) स्वामी को सहसा = ( शांभव-आवेश से ) एक- बारगी ११९ अभिज्ञाय = पहचान कर ( अर्थात् प्रत्यक्ष दर्शन करके ) ( अहं = मैं ) - कदा = भला कब लज्जयिष्यामि = लज्जित करूंगा ? (कोभक्त-जनों में प्रकट करूंगा ) ? ॥ ६ ॥ )? - अशेषविभूत्यास्पदत्वादीश्वरम् | अप्रतियोगित्वादभयम् । सर्वप्रदत्वा- दुदारम् | निराकाङ्क्षत्वात्पूर्णम् | नित्यत्वादकारणम् । अथ च अकारणं - निनिमित्तमेव जगद्रूपतामहणेन स्वरूपगोपनासारत्वादपहुतात्मानम् | यो हि अनीश्वरादिरूपः स गोपायतामात्मानं भगवांस्तु नैवम् । अथ च गोपितात्मैवेति । ईदृशं स्वामिजनं– निजप्रभु, सहसेत- शाम्भवावेश युक्तया कदा अभिज्ञाय – साक्षात्कृत्य, लज्जयिष्यामि - अपह्नुतिप्रधान तद्रूपगुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेत्यर्थः ॥ ६ ॥ १. ख० पु० जगद्रूपताग्रहणे - इति पाठः | २. ख० पु० गोपनसारत्वादिति पाठः । ग० पु० गोपनसतत्त्वादिति च पाठः । ३. ख० पु० गोपयतामात्मानमिति पाठः । ४. ख० पु० नैवेति पाठः । ५. ख० पु० अथ चागोपितात्मैवेति पाठः ६. ग० पु० प्रथयेति पाठः ।