पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - हे नाथ ! भवदङ घितलस्पृशां - त्वच्छक्तिस्पर्शशालिनां, कदाचिद्- वसरे, तत्किमपि - असामान्यं वस्तु चेतसि स्फुरति, यत्र समस्तमिदं विश्वं, सुधासरसि - परमानन्दसागरे गलति- तन्मयीभवति । तत्तथा विधमिदं वस्तु मह्यं सदा दिश-प्रयच्छ, यथा नित्यसमावेशानन्दघन एव भवानि – इति शिवम् ॥ २६ ॥ ८८ ● इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वबलनिदेशनाख्ये पञ्चमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ ५॥ १. ख० पु त्वद्भक्ति स्पर्श - इति पाठः । २. ख० पु० भवामि इति भद्रम् इति पाठः ।