पृष्ठम्:शिवलीलार्णवः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
त्रयोदशः सर्गः ।


कैलासाद्रिं शासतः कल्पकोटी: पूर्ण: कोशो यस्य भिक्षाकपालैः ।
प्राप्तेनेत्थं पाण्ड्यराज्याधिपत्यं लब्धा सद्यस्तेन लक्ष्मीरपारा ॥ ७ ॥
शैवाः शाक्ता वैष्णवाः सांख्यनिष्ठा योगाचार्या ब्रह्मविद्याविदोऽपि ।
गत्वा गत्वा तं यथैकं प्रपन्नास्तद्वत् तास्ताः कीर्त्तयोऽपि त्रिलोक्याम् ॥ ८ ॥
येऽस्मिन्नम्रास्तेजसा तं प्रपन्ना ये तु द्विष्टास्ते हताः सङ्गरेषु ।
भित्त्वा भानोर्बिम्बमूर्ध्वं पतन्तः पर्यावृत्य प्रापुरन्ते तमेव ॥ ९ ॥
वक्राम्भोजान्निस्सृतं वाक्यमात्रं पश्यन् देवो वेदवादायमानम् ।
सङ्ख्याधिक्याद्वेदशाखासु भीतः स्तोकस्तोकं व्याजहाराप्रमत्तः ॥ १० ॥
सीमन्यम्भोविप्लवे सेतुबन्धे गोसञ्चारे सार्थसम्मेलने वा ।
या मीनाक्ष्या स्थापिता प्राक् प्रजानां तां मर्यादां स प्रमाणीचकार ॥ ११ ॥
कोशान् पश्चैवाहुरन्नादिरूपान् यस्याशेषं शासतोऽमुं प्रपञ्चम् ।
संख्यातीता हेमरत्नादिरूपास्तस्येदानीं तेऽभवन् पाण्ड्यभर्तुः ।। १२ ।।
पाण्ड्याध्यक्षः पाण्ड्यजामातृदेवः प्रेयान् राज्ञ्याः पालको द्रामिडानाम् ।
इत्याख्याभिः प्रीतिरस्याधिकासीदात्मब्रह्मज्योतिरादिश्रुतिभ्यः ॥ १३ ॥
या मीनाक्ष्यास्तावती राज्यशक्तिः सा सङ्क्रान्ता तत्र भूयश्चकाशे ।
प्राप्तोत्कर्षा सानुनि स्फाटिकाद्वेः पत्युर्भासां भास्वरेवांशुरेखा ॥ १४ ॥
स्वे स्वे धर्मे स्थापिताः सर्व क्ष्मापालत्वं बिभ्रता तेन लोकाः ।
कालस्त्वेकश्च्यावितः स्वाधिकाराद् धर्मैकान्त्यं तन्वता मानवेषु ॥ १५ ॥
इत्थं राज्यं बिभ्रता तेन राज्ञा देवी जातु स्फारचिन्ता निमग्ना ।
भूयो भूयो हेतुमत्रानुयुक्ता प्राह स्मेदं प्राणनाथं मृगाक्षी ॥ १६ ॥
सञ्चिन्वाना तावकीनात् प्रसादाद् धर्म तं तं नाथ ! माता मदीया ।
जातौत्सुक्या तीर्थयात्राविधाने स्नातुं सिन्धौ श्वः प्रतिष्ठासते सा ॥ १७ ॥
इत्याकर्ण्य प्रेयसीखेदमूलं तत्रानेष्यन् सागरान् सप्त देवः ।
सस्माराग्रे सद्य एवास्य तेऽपि प्रादुर्भूता मूर्तिमन्तः प्रणेमुः ॥ १८ ॥
प्राचि स्थाने सोमसौन्दर्यनेतुः प्रागेवास्ते कश्चिदेकस्तटाकः ।
सर्वे तस्मिन् सन्निधत्तेति देवो नामादेशं सागरानादिदेश ॥ १९ ॥


१. श्रुतयो व्यपदेशाः ताभ्यः. २. कालो वैवस्वतः. ३. नामादेशं नामग्राहं । 'नम्म्य दिशिग्रहोः' (३-४-५८) इति णमुल् .


+'रामादेशम्' इति खपुस्तके पाठः.