पृष्ठम्:शिवलीलार्णवः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
शिवलीलार्णवे


पश्यन्तीनामग्रतस्ते प्रजानां त्यक्त्वा रूपं पौरुषं सिन्धुराजाः ।
दृश्यन्ते स्म व्योम्नि दूरे तरङ्गैराजिघ्रन्तो दिक्तटानुत्तरङ्गैः ॥ २० ॥
स्वं स्वं रूपं संक्षिपन्तोऽपि ते ते कासारान्तस्सम्भवाह समुद्राः ।
आलक्ष्यन्त स्पष्टमत्यद्भुताभिर्बलगन्तीभिः पङ्क्तिभिर्वाचिकानाम् ॥ २१ ॥
आक्रामद्भिर्व्योमकक्ष्यामकाण्डे स्रोतोभिस्तैः स्वीकृताः सागराणाम् ।
जग्मुर्मेधास्तत्र शैवालभावं विद्युल्लेखा विद्रुमत्वं च तेषाम् ॥ २२ ॥
आसप्तर्षिस्थानमाक्रान्तिहेतोः संवर्त्तेषु द्यामिव द्रष्टुकामैः ।
आरूढे व्योम्न्यर्णवैरभ्रसिन्धोः सव्यं चक्षुः शश्वदस्पन्दतोच्चैः ॥ २३
भागीरथ्या जातु लेभेऽभिषेकं पर्याप्तं यः प्राग्युगे व्योमकेशः ।
द्रव्यैस्तैस्तैर्दुग्धदध्याज्यमुख्यैर्द्वैतीयीकः सोऽस्य जज्ञेऽभिषेकः ॥ २४ ॥
पश्यत्यग्रे पाण्ड्यदेवे ततस्ते पारावारा: पल्वले तत्र पेतुः ।
पार्श्वस्थास्नोर्ऋत्विजः कुम्भयोनेः प्रायस्तालुन्यार्द्रतामावहन्तः ॥ २५ ॥
क्षीरं सर्पिर्वारुणीमिक्षुसारं दध्यप्यो दुर्लभं पातुकामाः ।
विष्वग् देवाः सम्पतन्तो विमानैः स्रोतम्येषां कीटमज्जं ममज्जुः ।। २६ ।।
क्षारं वारि क्षीरमुख्यानि वस्तून्येकं सर्वाण्येकदैवाजधान ।
मौढ्यं ह्येकं हन्ति राशिं गुणानां शौर्यौदार्यस्थैर्यगाम्भीर्यमुख्यम् ॥ २७ ॥
शब्दस्पर्शौ रूपगन्धौ रसश्च प्राप्तास्तीर्थे चित्रतां तत्र सद्यः ।
आस्तामेतन्मज्जतामत्र नॄणां स्वर्गेऽप्यासीच्चित्रता यद्विचित्रा ॥ २८ ॥
सर्वे गन्धा यत्र सर्वे रसाश्च प्रादुर्भूतास्तीर्थराजे हि तस्मिन् ।
स्नानाल्लभ्ये तादृशि ब्रह्मभावे न्यायज्ञानां नागमाः पर्युपास्याः ॥ २९ ॥
नीरक्षीरे द्वे विवेक्तुं प्रगल्भा हंसास्तस्मिन् सर्वसङ्घातरूपे ।
भग्नोत्साहा मत्स्यमण्डूककूर्मैः प्राप्ताः साम्यं न प्रचेलुर्विलज्जाः ॥ ३० ॥
पत्या सार्धे योपितोऽधिक्रियन्ते तीर्थे स्नातुं पुत्रवत्योऽथवेति ।
श्रुत्वा शास्त्रं चिन्तया दूयमानां श्वश्रूमन्तस्तत्र शुश्राव देवः ॥ ३१ ॥
आवर्त्तार्ह स्थानमुल्लङ्घय सर्वे सम्प्राप्तस्तच्छाश्वतं धाम शम्भोः ।
प्रत्यानेयो वल्लभोऽस्याः कथं वेत्यन्तश्चिन्तामाप देवस्ततोऽपि ॥ ३२ ॥

१. कीटमज्ज ममञ्जुः कीटा इव मग्ना:. 'उपमाने कर्मणि च' (३-४-४५) इति णमुल् .