पृष्ठम्:शिवलीलार्णवः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
त्रयोदशः सर्गः ।


पत्युश्छायां पाण्ड्यदेव्याः स कामप्यानीयाग्रे दर्शयन् प्रेयसीं स्वाम् ।
तद्वृत्तान्तस्मेरदृष्ट्यानया तां वृत्तान्तं तं वेदयामास देवः ॥ ३३ ॥
सा संहृष्टा तां निशम्य प्रवृत्तिं पश्यन्ती च प्राणनाथं विमाने ।
आलिङ्गन्ती निर्भरं मीननेत्रां भूयो भूयो मूर्ध्नि चैनामजिघ्रत् ॥ ३४ ॥
त्वन्मातृत्वात् सिद्धमेवापवर्गै मन्वानाहं तेन हृष्टा न तावत् ।
यावत् तातं वीक्षमाणा तवेति स्तावंस्तावं सा बभाषे कुमारीम् ॥ ३५ ॥
लब्ध्वा योगं लज्जमाना विमानादाप्लुत्यारादागतेन प्रियेण ।
दत्तानुज्ञा देवपाण्ड्येन देवी सस्नौ तीर्थे संप्तरत्नाकरे सा ॥ ३६ ॥
दीनं रूपं प्रेयसा विप्रयोगाद् देव्याः प्लान्त्यास्तत्र दृष्टं जनैर्यत् ।
उन्मज्जन्त्यास्तत् ततः पर्यणसीच्चन्द्रापीडं चारुहासं त्रिणेत्रम् || ३७ ॥
सा गच्छन्ती शाश्वतं धाम शम्भोः सार्धं पत्या सर्वसौभाग्यधाम ।
क्लेशं कन्याविप्रयोगप्रसक्तं किञ्चिञ्चिते धारयन्तीदमूचे ॥ ३८ ॥
अद्य ज्ञातं ब्रह्म पूर्ण युवामित्यद्योत्सन्नः पाशवर्गोऽखिलो मे ।
दयेऽथापि त्वर्धविच्छिन्नमासीत् त्वत्सौभाग्यालोकभाग्यं किलेति ॥ ३९ ॥
शुश्रूषस्व प्रेयसः पादपद्मं क्षान्त्या धृत्या प्रेमवत्या च भक्त्या ।
लब्ध्वा पुत्रं राज्यभारेऽभिषिच्य द्रष्टास्मि त्वां स्वं पद प्रत्युपेताम् ॥ ४० ॥
इत्यादिश्य प्रस्थितायां जनन्यां सर्वोत्तीर्ण शाङ्करं धाम दिव्यम् ।
आनन्दोत्थैः शोकजैश्चाश्रुपूरैर्वक्रं देव्या दूषितं भूषितं च ॥ ४१ ॥
ताभिस्ताभिस्तत्प्रसङ्गोचिताभिर्मार्जन् वाग्भिर्मानसं क्लेशमस्याः ।
वारिकांडां वारिजाक्ष्यानयासावानन्दाब्धावाचचार प्रवीरः ॥ ४२ ॥
दीनान् दानैर्देवता यज्ञभागैरार्त्तानार्तिच्छेदनैस्तत्तदर्हैः ।
जिज्ञासूनप्यात्मविज्ञानदानैर्देवो रक्षन् पालयामास पृथ्वीम् || ४३ ॥
'अन्तर्वत्रीं जातु कालेन पत्नीं दर्शं दर्शं पिप्रिये देवपाण्ड-
केकीवाम्भस्सम्भृतां मेघमालां माध्वीगर्भी पद्मिनीगप्यळोव ॥ ४४ ॥
यत् कातर्यं यौवनेनाक्षिण दत्तं यच्चानीतं दौहृदेनाथ तस्याः ।
प्रागल्भ्याय प्राभवत् सर्वमेतत् तत्सम्भूतेरद्भुतं मीनकेतोः ॥ ४५ ॥


१. सप्तानां रत्नाकराणां समाहारः सप्तरत्नाकरं तस्मिन् ● बहुव्रीहिर्वा.