पृष्ठम्:शिवलीलार्णवः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
शिवलीलार्णवे


ब्याजेन केनापि गिरं त्वदीयां शुश्रूषमाणो यदकार्षमित्थम् ।
तत् संहृतं देवि! तव प्रभावादश्रान्तपूरास्तु वियन्नदीयम् ॥ ९२ ॥
वेगागता वेगवतीति नाम्ना ख्याता नदीयं भविता भुवीति ।
प्रसादयन् पाण्ड्यसुतां मृदूक्त्या रेमे तया सुन्दरपाण्ड्यदेवः ॥ ९३ ॥
अथापरेद्युस्त्रिदशैः समस्तैरगस्त्यमुख्यैः परमर्षिभिश्च ।
पाण्ड्याधिराज्ये कलिताभिषेकः शशास पृथ्वी स तथा महिष्या ॥ ९४ ॥
इत्थं स पाण्ड्यतनयाचरणावलम्बसौभाग्यसम्पदुपपन्नसमस्तराज्यः ।
देवान् विसृज्य निखिलानुचितोपचारैर्देवः ससागरवनां बुभुजे धरित्रीम् ॥ ९५ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे द्वादशः सर्गः ।


अथ त्रयोदशः सर्गः ।

सम्प्राप्येत्थं पाण्ड्यराज्याभिषेकं सार्धं देव्या सुन्दरः पाण्ड्यदेवः ।
आसीमाद्वेर्निर्हतारातिशल्यां पृथ्वीं रेमे बिभ्रदेकातपत्राम् ॥ १ ॥
साब्धिद्वीपा साटवीदुर्गशैला सर्वाप्युर्वी यत्तुलाकोटिमूर्ध्नि ।
लग्ना दृष्टा रत्नवद् बाहुना तां तस्येदानीं बिभ्रतः कः प्रयासः ॥ २ ॥
या भूयोभिः पाण्डरैरातपत्रैः सञ्छन्ना भूराप सन्तापमन्तः ।
सैवाहृष्यच्छाद्यमाना तदानीमेकच्छत्रच्छायया तस्य राज्ञः ॥ ३ ॥
नायष्टारो नाकृतब्रह्मविद्या नादातारो नाप्यधर्मे प्रसक्ताः ।
विप्राः किन्तु त्यक्तपाण्डित्ययोगाः स्थातुं बाल्ये तस्य राष्ट्रे चकाङ्क्षुः ॥ ४ ॥
चातुर्वर्ण्य चातुराश्रम्यरम्यं चातुर्वैद्यं तच्चतुर्वर्गयोगम् ।
दृष्ट्वा तेन स्थापितं निर्विशङ्कं तस्थौ धर्मस्तत्र पौदश्चतुर्भिः ॥ ५ ॥
गावो धान्यं भूषणान्यम्बराणि स्वर्ण रूप्यं यानि चैवंविधानि ।
स्वामिन्यादौ विप्रैलब्धे तदीयं सर्वं जज्ञे विप्रलब्धं तदानीम् ॥ ६॥


1. वञ्चिते अथ च विप्रैः लब्धे.