पृष्ठम्:शिवलीलार्णवः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
शिवलीलार्णवे


प्रागेव यः पाण्ड्यसुतोपलम्भान्नाथः स्थितो नर्त्तितुकाम एव ।
भक्तानुकम्पामपदिश्य तस्य नृत्तं तदावर्त्तत निर्विशङ्कम् ॥ ४० ॥
आतोद्यगीतानुगपादतालमाविर्भवद्भावरसोत्तरङ्गम् ।
आवर्त्तवेगत्रुटिताङ्गहारमनृत्यदीशो ललिताङ्गहारम् ॥ ४१ ॥
उदाञ्चितोऽङ्घ्रिश्चिरमुल्ललास नृत्ते स्थितावर्त्तकनाम्नि शम्भोः ।
चित्ते विलीने जतुवन्मुनीनां न्यासादिव स्पन्दयितुं न शक्यः ॥ ४२ ॥
वृत्तौ चकारेव विलम्बितायां मञ्जीरनादैः प्रणवोपदेशम् ।
तस्यां द्रुतायां स तदूर्ध्वलग्नां तुर्यामुपादिशदिवार्धमात्राम् ॥ ४३ ॥
स्वभावरम्याणि यथा यथासन् स्वाच्छन्द्यतस्तस्य विचेष्टितानि ।
तथा तथा पप्रथिरे जगत्यां शैलूषतन्त्रोपनिषद्प्रभेदाः ।। ४४ ।।
तालान्तनृत्तारभटीषु तस्य निर्गच्छतां निश्चसितागमानाम् ।
आदौ महाव्याहृतितामवापुर्भूषाभुजङ्गेश्वरफूत्कृतानि ॥ ४१ ।।
उद्भिन्नरोमाञ्चमुदश्रुपूरमाश्चर्यसम्मूढमनन्यवृत्ति ।
आलेख्यविन्यस्तमिवान्त विश्वमानन्दनृत्तावसरे पुरारे: ॥ ४६ ॥
संव्यानसम्मृष्टमुखं भवान्या विस्रस्तचन्द्रार्धविलोभनीयम् ।
नृत्तान्तरस्यं वपुरिन्दुमौलेर्निध्याय तौ तुष्टुवुतुर्मुनीन्द्रौ ॥ ४७ ॥
नम्रेषु चित्तान्नवनीतवृत्तेर्नाथ ! त्वदीयादपि कोमलौ यौ ।
अस्मत्कृते तौ चरणौ यदित्थमायासितौ तत् प्रथमं क्षमेथाः ॥ ४८ ॥
त्वयीश ! नृत्ताद्विरेतेऽपि चित्तं त्वदास्पदं नौ परमाद्भुतेन ।
नाद्यापि नृत्ताद्विरतिं प्रयाति ततो न किञ्चित् प्रतिभां भजावः ॥ ४९ ॥
आवां प्रसादेन कृतार्थितौ ते याचावहे लोकहिताय किञ्चित् ।
नृत्तोत्सवः काञ्चनसंसदीव नित्योऽम्त्वमुप्यामपि संसदीति ॥ ५० ॥
तथेति दत्वाभिमतं तयोस्तत् प्रसेदिवान् लोकहितार्थनेन ।
देवोऽनुजग्राह पुनः स्वयं तौ दत्वा शिवज्ञानमनन्यलभ्यम् ।। ५१ ।।
सेवावसाने पुरशासनस्य समागतान् भूमिसुरान् सुरांश्च ।
हैमेषु पीठेषु वितर्णपाद्यानस्थापयत् कुम्भभवोऽथ भोक्तुम् ॥ १२ ॥