पृष्ठम्:शिवलीलार्णवः.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
शिवलीलार्णवे


कान्तः शरण्यो जगतां त्रयाणां तस्याः, करस्थे चरणारविन्दे ।
ऐश्वर्यमुर्व्यादि सदाशिवान्तमव्याहतं तद् बुबुधे करस्थम् ॥ १४ ॥
आमुक्तमञ्जीरम लक्तकाङ्कमाकुञ्चितं किञ्चिदिव हियान्तः ।
स्विन्नं करे स्विद्यति लग्नमैशे धन्याः पदं तद् ददृशुर्जनन्याः ॥ १५ ॥
आसीत् तदाविष्कृतहर्षबाप्पमक्षिद्वयं काञ्चनमालिकायाः ।
आ मानुषादा च महेश्वरीयादानन्द | साम्राज्य इवाभिषिक्तम् ॥ १६ ॥
आधीयमानेऽश्मनि तत्पदाब्जे मञ्जीरघोषो मधुरो जज़म्भे ।
सद्यः समास्फालितदोर्द्वयेन मुक्तः स्मरेणेव जयाट्टहासः ॥ १७ ॥
प्रदक्षिणीकुर्वति* हव्यवाहं द्वन्द्वे जगन्मङ्गलधाम्नि तस्मिन् ।
प्रदक्षिणीचक्रुरिव प्रजानां दृशस्तदीयोत्पलदामदम्भात् ॥ १८ ॥
निर्वर्त्य वैवाहिकहोमशेषमम्भोजभूः कुम्भभुवोपदिष्टः ।
न्यवेशयद्रत्नमयेऽथ पीठे वामे वधूं दक्षिणतो वरञ्च ॥ १९ ॥
आसन्नमप्यन्तरलेशशून्यं मिथो न तृप्ति मिथुनं तद्हे ।
अतृप्तयोरेकशरीरभावेऽप्यासत्तिरेषा कतमा तयोः स्यात् ॥ २० ॥
आशीर्भिरानुश्रविकीभिराद्यामाचारपद्यामनुपालयन्तः ।
संवर्धयामासुरिमौ समेता ब्रह्मर्षयो ब्रह्ममुखा हसन्तः ॥ २१ ॥
स दक्षिणाभिः परितोष्य विप्रान् सम्मान्य देवानुचितोपचारैः ।
विश्रान्तिहेतोरवरोधगेहं विवेश देवोऽथ तटातकायाः ॥ २२ ॥
धैर्योपदेशादसकृत् सखीभ्यां वाणीरमाभ्यां प्रतिबोधितायाः ।
आलम्बमानः करमम्बिकाया मञ्चे परायें निषसाद देवः ॥ २३ ॥
ताम्राधरोष्ठं तरलायताक्षमास्विन्नमषित्रपयावनम्रम् ।
वक्रं शनैरुन्नमयाम्बभूव मार्जन्निव स्वेदलवान् स तस्याः ॥ २४ ॥
ताम्बूलमासन्नसखीवितीर्णमादाय पर्याकुलितां ह्रिया ताम् ।
आलक्षयन्ती कमला सलीलमाह स्म पत्ये प्रतिपादयेति ॥ २५ ॥
कुतो गृहीता वलयास्त्वयमं केनोपहारीकृत एष हारः ।
इत्यङ्गमङ्गं पतिराममर्श जिज्ञासयेवाभरणेषु तस्याः ॥ २६ ॥


+ साम्राज्येत्यादिमधुर इत्यन्तोऽशः खपुस्तके न लिखितः.

  • ति हव्येत्यादिर्दृशइत्यन्तोंऽशः खपुस्तके न लिखितः