पृष्ठम्:शिवलीलार्णवः.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
शिवलीलार्णवे


शची तदीयाद्भुतरूपदर्शने सहस्रमक्ष्णां स्वयमिच्छती सती ।
सकृत्प्रवृत्त्यापि चकाङ्क्ष गौतमे बलादहल्याकृतशापमात्मनः ॥ ७८ ॥ .
ततः शनैर्भूषणगौरवेण सा सखीजनालम्बितहारमण्डला |
ननाम वाणीकमले नता स्वयं सुराङ्गनाभिः परिषस्बजे शचीम् ॥ ७९ ॥
अयं प्रणामो ननु लाभ एव नो विवाहदीक्षावभृथे तु देवि! ते ।
न हि प्रणामावसरं लभेवहीत्यवोचतां तां परिरभ्य ते दृढम् ॥ ८० ॥
अथावतीर्य द्विरदादलङ्कृतादनुद्रुतः पारिषदैः सुरैरपि ।
विरिञ्चवैकुण्ठकरावलम्बनो विवेश राज्ञो भवनं महेश्वरः || ८१ ॥
तमर्थ्यपाद्याचमनीयपूर्वया सपर्यया कुम्भभवः सभाजयन् ।
प्रवेशयामास वरं महर्षिभिः प्रसन्नया तस्य दृशा कृतार्थितः ॥ ८२ ॥
स पाण्ड्यशुद्धान्त विलासिनीजनैर्विकीर्यमाणः शुभलाजमुष्टिभिः ।
जटाभिघातोत्पतदभ्रवाहिनीपयः कणाकीर्ण इवाबभौ वरः ॥ ८३ ॥
प्रविष्टमन्तः प्रतिहारसीमनि प्रतीक्ष्य जामातरमिन्दुशेखरम् ।
प्रचोदिता काञ्चनमालया रमा चकार पाद्यं पयसास्य पादयोः ॥ ८४ ॥
प्रदीपहस्ता वचसामधीश्वरा प्रदक्षिणीकृत्य शचीसमन्विता ।
प्रवेशयामास शशाङ्कशेखरं पुरस्सरन्ती दिविषत्पुरन्त्रिभिः ।। ८५ ।।
स विद्रुमस्तम्भ चतुष्कशोभितां विचित्रवैदूर्यविटङ्कलाञ्छिताम् ।
विलम्बिमुक्तामणिदामकोमलां विवेश देवोऽथ विवाहवेदिकाम् ॥ ८६ ॥
भेरीभाङ्कारसान्द्रं बहिरबहिरपि प्रौढशुद्धान्तकान्ता-
पाणिव्याविद्धतूर्यध्वनिजनित चमत्कारसङ्गीतरम्यम् ।
जामातृश्लाघनोक्तिव्यतिकरितवधूबान्धवोल्लासहासं
जज्ञे राज्ञो गृहं तन्मुनिजनरचितोत्तुङ्गमङ्गल्यपाठम् ॥ ८७ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे एकादशः सर्गः ।