पृष्ठम्:शिवलीलार्णवः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
शिवलीलार्णवे


मयास्य दृष्टे विपुलायते दृशौ मयास्य मन्दस्मितमीक्षितं शुचि ।
अहं द्वयं प्रैक्षिषि साधु साध्वियं पशुर्हि नः पुच्छविषाणवर्जितः ॥ ५२ ॥
अनङ्गसर्वस्वमनन्यवीक्षितं न्यधायि यत् पाण्ड्यकुमारिकावशे ।
तदप्यवस्कन्तुमुपागतः स्वयं युवा किलायं चतुरो जितस्मरः ॥ ५३ ॥
इति प्रवृत्ताः प्रतिवीथि सङ्कथा मृगीदृशामाकलयन् कृतस्मितः ।
विकीर्यमाणः पथि लाजमौक्तिकैः पुराङ्गनाभिः पुरशासनो ययौ ॥ ५४ ॥
O
स राजगेहं समया मतङ्गजं नियन्त्रयन्नादिशति स्म नन्दिनम् ।
श्रियं च वाणीमपि राजमन्दिरं प्रवेशय प्रागमरीगणैरिति ॥ ५५
ततः शिलादात्मजवेत्रताडितद्रवन्नभोभूचरसंसदा पथा ।
समं समस्तामरसुन्दरीजनैर्जगज्जनन्यौ ययतुर्नृपालयम् ।। ५६ ॥
पुरस्कृते स्वोचितया सपर्यया पुरोधसा कुम्भभवेन ते उभे ।
अभिद्रुता काञ्चनमालिका जवाद् विकीर्णपुष्पा पदयोरवन्दत ॥ ५७ ॥
पृथक् पृथक् सा परिरभ्य लालिता शचीरमावाग्जननीभिरादरात् ।
श्रिये सरोजं शुकमुज्ज्वलं गिरे मणि च शच्यै विनयादुपाहरत् ॥ १८ ॥
उपेहि मातामहि ! कुत्र सा वधूः प्रदर्शयास्मज्जननीमितीरिता ।
निनाय ताः काञ्चनमालिका शनैस्तमा लयं यत्र तटातकास्थितिः ॥ ५९ ॥
विसृज्य भद्रासनमात्तपादुकां समायतीं प्रश्रयगन्धिभिः पदैः ।
वधूं विवाहोचितवेषकोमळां निरीक्ष्य तस्थुर्निभृताः सुरस्त्रियः ॥ ६० ॥
अलक्ष्यतास्या मणिपादुकाञ्चले समन्ततो मौक्तिकपङ्किरुज्ज्वला ।
अदूरलग्ना चरणारविन्दयोरनुश्रवाणामिव वर्णपद्धतिः ॥ ६१ ॥
अतीत्य लाक्षारसमाहितं नवं मणिप्रभां पादुकयोश्च तावतीम् ।
अकृत्रिमः पाटलिमा पदाब्जयोरलक्ष्यतास्या विसरन् बहिः स्फुटम् ॥ ६२ ॥
प्रबोधयन्ती श्रियमक्षिसंज्ञया सरस्वती तच्चरणाम्बुजद्वयम् ।
क्षणं निदध्यौ विकचेक्षणा ततश्चिरं तु दध्यौ मुकुळीकृतेक्षणा ॥ ६३ ॥
समापतन्त्याः सविलासमाबभौ मनोहरोऽस्या मणिमेखलारवः ।
विजित्य शम्भुं मदनेन गर्जता प्रवर्त्तितोच्चैरिव वीरघोषणा ॥ ६४ ।।