पृष्ठम्:शिवलीलार्णवः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
एकादशः सर्गः ।


शचीमुखैर्निर्जरकामिनीजनैः समावृते मातृगणैश्च सर्वतः ।
महार्हकर्णीरथमध्यगे रमावचोऽघिदेव्यौ तमनु प्रचेलतुः ॥ ३९ ॥
श्रियं नृपाणामवरोधसुभ्रुवो द्विजातिपत्न्यो दयितां हविर्भुजः ।
गिरं गृहिण्यो विदुषां च सादरं विशिष्य भक्त्यावनता ववन्दिरे ॥ ४० ॥
समुद्घृतं मूर्धनि तस्य पाण्डरं प्रकाशते स्मातपवारणं महत् ।
शिरस्स्थितं स्वं शिशुमस्य वीक्षितुं समागतः पूर्ण इव क्षपाकरः ॥ ४१ ॥
सितातपत्रान्तरसम्मितं विभोः शिरस्पदं वीक्षितुमुन्मना मनाक् ।
विधातृहंसः परितः पतन्निव व्यलोकि धूतं दिवि चामरद्वयम् ॥ ४२ ॥
अयं स राज्ञीपतिरेति पश्यतेत्यनुद्रवज्जानपदोक्तिभङ्गिभिः ।
कृताभ्यसूयेषु गणेषु सस्मितौ हरिर्विरिञ्चश्च तमन्वपश्यताम् ॥ ४३ ॥
पराक्रमं स्वं प्रकटीचिकीर्षता समाह्रतं शंबरवैरिणा शिवे ।
बलं निजं मौलमिवाङ्गनाजनस्तमीक्षितुं सन्निपपात सर्वतः ॥ ४४ ॥
तमेकवक्रं द्विभुजं द्विनेत्रमप्यमानुषं भावमिवास्थितं त्विषा ।
निरीक्षमाणा निभृतैर्विलोचनैः परस्परामित्थमवादिषुः स्त्रियः ।। ४५ ।।
अहो मुखाम्भोजमहो युगं दृशोरहो भुजद्वन्द्वमहो भुजान्तरम् ।
अहो महत्कौशलमस्य वीक्षितेष्वहो विचित्रा मदवारणे स्थितिः ।। ४६ ॥
जिता त्वया यत् पृथिवी न तज्जितं जिताश्च यद्देवि ! सुरा न तज्जितम् ।
अनेन यूना यदनन्यनिर्जितं जितं वधूजन्म तदूर्जितं जितम् ॥ ४७ ॥
अमुं समालोक्य युगेन सा दृशोरमुं समाश्लिष्य भुजद्वयेन वा ।
कथं पुनर्निर्वृणुयात् तटातकाप्यपूर्णकामाः सकला वयं ततः ।। ४८ ।।
हृतं मनोऽनेन हृते विलोचने सहैव नीताः सखि ! पञ्च नासवः ।
इदं वपुर्नः परमत्र पातितं गतत्रपो विध्यति नच्च मन्मथः ॥ ४९ ॥
त्वदीक्षणायोपगतास्त्वदाश्रिता हिनस्ति नस्त्वयपि पश्यति स्मरः ।
इतीरयामो वयमस्य सन्निधौ प्रभुः किलायं नगरस्य चास्य नः ॥ ५० ॥
मयाम्बुजाक्षः सविशेषमीक्षितो मयाद्य दृष्टः सविधे चतुर्मुखः ।
अमुं युवानं प्रथमं विलोकयन्त्यहं तु मुग्धा न कमप्यवेदिषम् ॥ ५१ ॥