पृष्ठम्:शिवलीलार्णवः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
एकादशः सर्गः ।


327

उपस्थितेशानविवाहमङ्गलामुदीक्ष्य पुत्रीं मुमुदे न सा तथा ।
यथा व्यषीदत् तनयोत्सवप्रियं पतिं स्मरन्ती मलयध्वजं नृपम् ॥ १३ ॥
परीत्य हेमाम्बररत्नभूषणैः प्रवर्त्तितारात्रिकमङ्गला स्वयम् ।
चकार रक्षां जननी तनूभुवः सितेन फाले भसितेन शूलिनः ॥ १४ ॥
अथोपकार्या विविधाः सुधान्धसां धराभुजां तत्र तपस्विनामपि ।
समस्तवस्तूपचिताः समन्ततश्चकार सज्जाः सुमतिः क्षणादिव ॥ १५ ॥
सुगन्धिगन्धद्रवलिप्तभित्तिकं सुवर्णरम्भाघटितं गृहे गृहे ।
नियन्त्रितच्छत्रमुदञ्चितध्वजं पुरं स्वतः पौरजनैरलंकृतम् ॥ १६ ॥
विनिर्गतः सुन्दरनाथलिङ्गतो महेश्वरो मानुषमास्थितो वपुः ।
पुरोपशल्येऽवततार संवृतो गणैः सुरैर्मातृगणैश्च सर्वतः ॥ १७ ॥
स पाण्ड्यदेवीप्रहितेन मन्त्रिणा निवेदितासन्नमुहूर्त्तमङ्गलः ।
प्रभुर्विवाहोचितवेषसुन्दरः प्रवेष्टुकामो मधुरां विनिर्ययौ ॥ १८ ॥
किरीटकोटीघटितोऽस्य पाटलो मणिर्बभौ वासुकिनोपदीकृतः ।
निकृत्य बालं विधुमुच्चकैस्ततः परिस्फुरन् बाल इव त्विषां पतिः ॥ १९ ॥
विजित्य मारं जगदेकधन्विनं यदाप कीर्ति महतीं महेशितुः ।
तदक्षि तस्मिन्नधुना विजृम्भिते ममज्ज मन्दाक्षवशादिव स्वयम् ॥ २० ॥
प्रसक्तमङ्कं विमले कथञ्चन प्रमार्ष्टमीष्टे न शिवोऽपि सर्वथा ।
मृगेण हीनोऽप्यलिकेऽस्य यत् क्वचित् बभौ मुखेन्दुर्मृगनाभिलाञ्छितः ॥२१॥
कपोलसौन्दर्यममुष्य पश्यतः कटाक्षरेखाः पतिता जनस्य याः ।
नवोद्गतश्मश्रुनिभादिहैव ता निषेदुरत्यादरकीलिता इव ॥ २२ ॥
विशुद्धमुक्ताफलकुण्डलाङ्कितं विकीर्णमन्दस्मितसुन्दराधरम् ।
विशालनेत्रं वदनं निरीक्षितुं तदस्य सैवार्हति मीनले
विशुद्धहेमत्विषि विश्वमङ्गले वपुष्यमुष्याद्भुतकुङ्कुमाङ्किते ।
अलक्षि सूक्ष्मो विशदश्च कञ्चुकोऽवतंसितेन्दोरिव चन्द्रिकाङ्कुरः ॥ २४ ॥
मुहूर्त्तपर्यन्तबिलम्बनाक्षमाविजृम्भमाणस्मरसज्वरार्जितः ।
विनीलिमेव व्यरुचद् भुजान्तरे तनुस्तदीये मृगनाभिचर्चिका ॥ २५ ॥