पृष्ठम्:शिवलीलार्णवः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
शिवलीलार्णवे


महेद्रवमयुरा प्रवेश

अथैकादशः सर्गः ।

अथोत्थितां तामनुगृह्णती चमूं सुखप्रसुप्तप्रतिबोधितामिव ।
विहाय सा भूमिपथं सखीवृता विहायसा प्रास्थित पुष्पकाश्रिता ॥ १ ॥
ददर्श वल्मीकवदुन्नतान् गिरीन् महान्त्यरण्यान्यपि शाङ्खलानिव ।
सुरापगाद्याः सरितोऽपि तन्तुबद् विदूरभावादवनौ नृपात्मजा ॥ २ ॥
पुरोपशल्योपवनेऽवतीर्य सा शुभे मुहूर्ते सुमतिप्रवेदिते ।
विवेश राज्ञो भवनं परिष्कृतं गजेन दुग्धार्णवजन्मना शनैः ॥ ३ ॥
प्रविश्य गेहं सदसि क्षणं स्थिता विसृज्य पौराननुयायिनोऽपि च ।
सखीसमेता सुमतौ पुरस्सरे जगाम मातुः सदनं तटातका ॥ ४ ॥
अभिद्रवन्तीं द्रुतमासनान्निजात् प्रमोदबाष्पस्थगितेक्षणामियम् ।
ननाम नाम स्वमुदीर्य पादयोर्विकीर्णपुष्पा विनयेन मातरम् ॥ ५ ॥
सुतां विनम्रां परिरभ्य निर्भरं शिरस्युपाघ्राय चुचुम्ब चानने ।
पुनश्च माता परिषस्वजे चिरं पुनश्च जघ्रौ सुचिरं शिरस्पदे ॥ ६ ॥
नियन्त्रितानन्दतरङ्गसम्प्लवां निरुद्धहर्षाश्रुलवां कथञ्चन ।
समेत्य सख्यः सुमतिश्च पादयोर्मुहुः प्रणेमुर्महिषीं महीपतेः ॥ ७॥
इयं नदीभर्त्तुरियं सुधान्धसामियं नृपाणामुपदेति मन्त्रिणा ।
निवेद्यमानेऽपि सुतामुखार्पितां न दृष्टिमावर्त्तयितुं शशाक सा ॥ ८ ॥
इयान् जयस्ते सुमतेः प्रभावतः सखीभिराभिः सुखमस्मि पोषिता ।
इमान् समालोकय देवि ! तावदित्यबोधयन्मातरमम्बिका स्वयम् ॥ ९ ॥
तथेति सा मन्त्रिनिवेदितां पृथग् ददर्श दिव्यामुपदां च पार्थिवीम् ।
सुरद्रुमान् स्वर्गगवीं च पूजितान् प्रणम्य जग्राह नृपालभामिनी ॥ १० ॥
वरः सुराणां जगतां च यो वरो वरः स एव स्वयमम्बयार्जितः ।
किमेभिरद्येत्यवदन्महत्प्रियं समेत्य सख्यः सुमतिश्च तां प्रति ॥ ११ ॥
किमेतदित्यप्रतिपत्तिमन्थरां विशिष्य देवीं सुमतिर्विबोधयन् ।
स संविधित्सुः सकलं तदाज्ञया बहिः प्रतस्थे बहुधा तयादृतः ॥ १२ ॥