पृष्ठम्:शिवलीलार्णवः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
दशमः सर्गः ।


तस्तम्भिरे च मुमुहुश्च चकम्पिरे च
यत् त्रासिता युधि तया प्रमथाः समस्ताः ।

सद्यो दशा परिणता ननु सैवें तस्यां
कस्यापि जीर्यति न शैवजनापचारः ॥ १०२ ॥

मारस्य चार इव वीक्ष्य हरं पुरस्ता-
दन्तर्यदा प्रविशति स्म कुचस्तृतीयः ।

सम्बोधितः सुमतिना सविधं तदैव
तस्या जगाम तरुणस्तरुणेन्दुमौलिः ॥ १०३ ॥

ददृशे किल पुष्पवर्षमेकं प्रकटं मूर्ध्नि तयोस्तदा प्रवृत्तम् ।
हृदयस्थपरस्परा *धिगम्यं ववृते चान्तरमाङ्गजं तदन्यत् ॥ १०४ ॥
उन्नमय्य मुखमानतमस्याः पाणिनेदमवदत् प्रमथेशः ।
पश्य देवि! किमपत्रपसे त्वं यत् त्वया युधि वयं विजिताः स्मः ॥ १०५ ।।
घटितमखिलं ज्ञातो भावो न किञ्चन शेषितं
तदपि भवतीं वाचा याचामि काञ्चनमालिकाम् ।
इति निगदति स्मेरे शम्भौ रसोत्तरमुत्तरं
चतुरमवदत् सद्यो बाला तथा क्रियतामिति ॥ १०६ ॥
चातुर्य तदवेत्य वाक्यसरणौ चन्द्रार्धचूडामणि-
र्बाले ! तत् क्रियते तथैव भवती सद्यः परावर्त्तताम् ।
आसन्ने विधुवार एव मधुरामेतास्मि सज्जीभवे-
त्याभाष्य स्मितमन्थरं स्वयमसावन्तर्दधे तामपि ॥ १०७॥

सद्यः करग्रहफला तव जैत्रयात्रेत्युक्तं न विस्मर वचः कलशीभुवेति ।

सा बोधिता सुमतिना सविलज्जमन्तः स्मित्वा तदैव मधुराभिमुखी प्रतस्थे |

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीतं

शिवलीलार्णवे दशमः सर्ग


१. अन्तर्दधे तिरोहितः अन्तर्हृदये धृतवांश्च.

  • 'भिगम्यम्' इति खपुस्तके पाठः
  • .जित्रासिवा इति पाठावरम