पृष्ठम्:शिवलीलार्णवः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
शिवलीलार्णवे


धावतो गणवरान्निवारयंस्तर्जयन्युधि च तत्सखीजनान् ।
सन्ददर्श धुरि तां रथे स्थितां स द्वितीय इव शङ्करो गणः ॥ ८९ ॥
निर्दयं प्रविविधुः सखीजना मन्दमन्दमिषुभिस्तमम्बिका ।
मातृहस्तगलिता हि मार्गणाः कस्य मर्मणि निवेष्टुमीशते ॥ ९० ॥ |
स्वामिनीति जननीति चावशान्निस्सरत्सु वचनेषु चासकृत् ।
पाणिना स युयुधे क्षणं बलादञ्जलिं प्रतिमुहुश्चिकीर्षता ॥ ९१ ॥
पाण्ड्यराजदुहितुः करच्युता नाशुगास्तमसुभिर्व्ययोजयन् ।
तत्त्वतो हि कुसुमानि सायकानैक्षवं च धनुराहुरागमाः ॥ ९२ ॥
सर्ववित् स हि शिलादनन्दनः सन्निवृत्य झटिति स्वयं रणात् ।
स्वामिने तदखिलं व्यजिज्ञपत् पादयोः प्रणिपतन् मुहुर्मुहुः ॥ ९३ ॥
सन्धिरेव भवतस्तयोचितः सङ्गरो न तु महेश ! जात्वपि ।
एहि याम इतिवादिनं तु तं सोऽवलम्ब्य निरगात् कृतस्मितः ॥ ९४ ।
पाण्ड्यराजदुहितुर्हि दक्षिण: प्रास्फुरत् समरकर्मणे भुजः ।
वीक्षिते तु वृषभध्वजे विभोरस्फुरत् स्वयमदक्षिणो भुजः ॥ ९५ ॥
आदिमं रसमिवात्तविग्रहं त्यक्तरौक्ष्यमिव तेजसां निधिम् ।
सा ददर्श शरदिन्दुसुन्दरं पुङ्गवे पुरहरं सनन्दिनम् ॥ ९६ ॥
स्रंसते स्म सशरं धनुः करात् तत्वरे तमुपगूहितुं मनः ।
उन्ममज्ज पुलकोऽभितस्तदा निर्ममज्ज हृदयेऽधिकः कुचः ॥ ९७ ॥
यं प्रहर्तुमवलम्बितं धनुस्तं निरीक्ष्य समरे तदुज्झितम् ।
तत्कटाक्षशरणः समाददे साभिमान इव मीनकेतनः ॥ ९८॥
तद्विलोकविवशीकृते हरे बाणपातचकिते च नन्दिनि ।
रन्ध्रमेतदुपलभ्य दर्पकः स्वां रुषं सफलयाम्बभूव सः ॥ ९९ ॥
युध्यते कथमियं कुमारिका युध्यते कथमसौ हरस्त्विति ।
द्रष्टुमिच्छति जगत्रये स्मरस्तावुभौ शरगणैरिबाकिरत् ॥ १०० ॥
यां विदन्ननपराध्यमाशुगं प्रागजीयत कृतश्रमः स्मरः ।
अद्य लब्धमनया महद्यशः काल एव विजयस्य कारणम् ॥ १०१ ॥