पृष्ठम्:शिवलीलार्णवः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
दशमः सर्गः ।


वीतबाहुचरणा विमस्तकाः कुक्षिलग्नवदना शिरोङ्घ्रयः ।
विष्फुलिङ्गनयना विषोद्गिरा लम्बमानरसनोष्ठनासिकाः ॥ ७६ ॥
श्वेतपीतहरितासितारुणाः शृङ्गिणः सगरुतः सचञ्चवः ।
व्याघ्रदन्तिहयवायसाङ्घ्रयः पादपाचलशिलानखायुधाः ॥ ७७ ॥
ऋक्षवानरतरक्षुपन्नगद्वीपिसिंहशरभद्विपाननाः ।
निर्ययुर्युगपदट्टहासिनः सङ्घशो युधि गणा मदोल्बणाः ॥ ७८ ॥
(चकलकम् )
धावदश्वमवघूर्णितद्विपं नष्टयोधमवसन्नसैनिकम् ।
सम्प्रमुग्धसचिवं क्षणादभूत् तादृशं तदपि मानवं बलम् ॥ ७९ ॥
ते पदातिकुलमूरुवेगतः फूत्कृतेन गजवाजिमण्डलम् |
स्यन्दनांश्च करतालमारुतैर्व्यक्षिपन् रणमुखाद्विदूरतः ॥ ८० ॥
क्षुद्रदीपमिव चण्डमारुतः शुष्कगुल्ममिव दावपावकः ।
ध्वान्तबृन्दमिव भास्करोदयस्तद्वलं नरबलं व्यनीनशत् ॥ ८१ ॥
युद्धदर्शनकुतूहलागताः सिद्धचारणसुपर्वपन्नगाः ।
अप्सरश्चरम्भागवर्त्मना दुद्रुवुः प्रमथयूथदृक्पथात् ॥ ८२ ॥
तां प्रधाव्य पृतनां गणैः समं सम्प्रसर्पति शिलादनन्दने ।
अग्रतो व्यचलदात्तकार्मुकः सम्प्रहृष्टवदनः सखीजनः ॥ ८३ ॥
बद्धकक्ष्यमपिनद्धकञ्चुक कुञ्चितभ्रूकुटि कोमलाननम् ।
मुग्धभीषणमलक्षि तद्वलं मूर्तमादिमरसद्वयं यथा ॥ ८४ ॥
स्वोचितप्रतिबलानवेक्षणस्रस्तयुद्धकुतुका शनैरिव ।
आददे धनुरधिज्यमम्बिका सा निरीक्षितसखीजनोद्यमा ।। ८५ ।।
तत्र शक्तिपृतनाधनुश्च्युताः सायकाः कनकपुङ्खशोभिनः ।
सर्वतः प्रमथमण्डलेऽपतञ्छार्वरे दिनमणेरिवांशवः ॥ ८६ ॥
तां पुरैव विकृतां वरूथिनीं स्वाशुगैर्विकृतिमपिता परम् ।
वीक्ष्य वीक्ष्य समरे विजहिरे ता निरीक्षितपरस्पराननाः ॥ ८७ ॥
स्रस्तशूलमपविद्धतोमरं ध्वस्तमुद्गरमपास्तकार्मुकम् ।
नन्दिनं शरणमयुराहवे ताडिता गणवरास्तदाशुगैः ॥ ८८ ॥

१. शार्वरे तमसि.