पृष्ठम्:शिवलीलार्णवः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
दशमः सर्गः ।


वारुणीं पलितरोगहारिणीमद्भुतामगुडपिष्टशीथुजाम् ।
वाजिनश्च हरितानपां पतिः सन्निधाप्य निपपात पादयोः ॥५१ ॥
प्राभृतं तदखिलं प्रचेतसः सा निरीक्ष्य सदयेन चेतसा ।
तं विसृज्य विनतं तटातका गन्धवाहनगरोन्मुखी ययौ ॥ ५२ ॥
मारुतैर्मलयजेन्दुगन्धिभिर्मन्दमन्दमुपदर्शितात्मभिः ।
स्वर्धुनीसलिलपातशीतलैः सेव्यते स्म चतुरं वरूथिनी || ५३ ॥
दाक्षिणात्यमनिलं पुरस्सरं ते विधाय मरुतोऽपरे पुनः ।
पारिजातकुसुमोपहारिणस्तां सुमत्यनुमताः सिषेविरे ॥ ५४ ॥
तान् प्रदर्श्य पवनान् पृथक् पृथग् व्याजहार सचिवो नृपात्मजाम् ।
एष जानपद एव देवि नो मारुतो मलयशैलमाश्रितः ॥ ५५ ॥
पश्य चक्रपवनानिमान् पुरः सन्ततोर्ध्वगतिवाददेशिकान् ।
आरसातलममीभिरुद्रमत्यर्णवस्तिमितिमिङ्गिलाकुलः ॥ ५६ ॥
आहरन्ति तरुवन्महागिरीनर्णवान् पृषतवत् किरन्ति च ।
आविरिञ्चिभवनादनर्गलान् पश्य तान् प्रलयमारुतानितः ॥ १७ ॥
पश्चिमान् द्रुमलताप्रभञ्जनानौत्तरान् घनतुपारवर्षिणः ।
प्राग्भवान् प्रियकचातकप्रियान् यानवैषि त इमे समीरणाः ॥ १८ ॥
भूतले कैबलयन्ति पन्नगा व्योम्न भारवहने नियुञ्जते ।
तावके तु विषये तटातके ! सञ्चरन्ति मुखिनः समीरणाः ॥ ५९ ॥
दर्शिताः सुमतिनेत्थमादृताः प्रेषिताश्च सदयं तयानिलाः ।
स्वस्वचेष्टितकृतः कुतूहलात् स्वां पुरीं प्रति ययुस्तदग्रतः ॥ ६० ॥
प्रस्थिता धनपतेजिंगीषया पाण्ड्यराजतनया ततः शनैः ।
प्राक् ततोऽपि स पथि व्यवस्थितः प्राभृतैः कनकरत्नराशिभिः ॥ ६१॥
तं निपत्य पदयोः समुत्थितं यक्षकिम्पुरुषराक्षसेश्वरम् ।
अन्वकम्पत दृशा दयार्द्रया प्रश्रयेण कथयन्तमन्तिके ॥ ६२ ॥
अम्ब कश्चिदलमेव मे जये नैगमेषु मधुरानिवासिषु |
भक्त इत्युपनतं प्रतीच्छ मां पश्य किञ्चिदिदमाहृतं पुरः ॥ ६३ ॥


१. कबलयन्तीति । अर्थात् समीरणान् । एव नियुजत इत्यत्रापि २. नैगमेषु वणिक्षु.