पृष्ठम्:शिवलीलार्णवः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
शिवलीलार्णवे


पाणिपीडनमहोत्सवे तव प्रार्थये सपदि साक्षितामिति ।
ईरिते हुतवहेन सस्मिता तं विसृज्य चलति स्म सा पुरः ॥ ३८ ॥
मा कदापि मधुरापुरीजुषां दृक्पथेषु पततेति बोधिताः ।
नित्यमेव समवर्त्तिना भटास्तां निरक्ष्यि पृतनां प्रदुद्रुवुः ॥ ३९ ॥
तारिताः सुमतिनाग्रगामिना तत्रतत्र निरयस्थिता जनाः ।
मातुरेष महिमा यदीदृशी भक्तदृष्टिपथपातिनां गतिः ॥ ४० ॥
संवृतं मुसलपाशपाणिभिः सर्वतो भटगणैर्गदैरपि ।
पश्यति स्म पथि दूरतः स्थितं प्राञ्जलिं रविसुतं तटातका ॥ ४१ ॥
सोऽभिगम्य सुमतेरनुज्ञया तां प्रणम्य पदयोः समुत्थितः ।
स्वां गदामुपहरन्नविप्लुतां प्रश्रितो वचनमेतदाददे ॥ ४२ ॥
भारत क्षितितले भवद्वशे सन्ति दुष्कृतकृतो न जन्तवः ।
प्राक्स्थिताश्च नरकेषु तारिताः प्राप्त एवमिह विश्रमो मया ॥ ४३ ॥
निष्क्रियोऽस्मि किमिह स्थितेन मे सञ्चरामि सबलश्चमूमुखे ।
ये भवन्ति परिपन्थिनोऽत्र ते तेषु देवि विनियुङ्क्ष्व मामिति ॥ ४४ ।
संयुगेष्वभिमुखा न सन्ति नः सन्ति चेदतिथयो दिवस्तु ते ।
सर्वथैव तव विश्रमोऽर्ह इत्याह तं सुमतिराहितम्मितः ॥ ४५ ॥
सा निवर्त्य समवर्तिनं ततः सञ्चचाल पुरतः शनैः शनैः ।
आययौ निर्ऋतिराहृतोपदस्तावदेव सबलः सबान्धवः ॥ ४६ ॥
अद्य पुण्यजनता ममागतेत्यालपन्तमिममानतं पदे ।
सा विसृज्य सलिलाधिपोन्मुखी सञ्चचाल मलयध्वजात्मजा ॥ ४७ ॥
उल्ललत्तिमितिमिङ्गिलोद्भटं ग्राहकच्छपकुलीरसङ्कुलम् ।
वाहिनी वरुणसैन्यमग्रतः पश्यति स्म सुमतेः पुरस्सरी ॥ ४८ ॥
शस्त्रजालमपविध्य सर्वतो वागुराश्च बडिशानि च स्वयम् ।
सम्प्रगृह्य मृगयाकुतूहलात् सन्ननाह पृतना चिराय सा ॥ ४९ ॥
शङ्खविद्रुमसरोज मौक्तिकप्रायमाप्यमुपहारमण्डलम् ।
आहरन् पुनरपां पतिः क्षणादाजगाम शरणं तटातकाम् ॥ ५० ॥