पृष्ठम्:शिवलीलार्णवः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
दशमः सर्गः ।


पश्य देवि ! पदमेतदामरं पाल्यते स्म मलयध्वजेन यत् ।
अभ्युपेत्य शतशः सहायतामाहवेषु दनुजान् निगृह्णता ॥ २६ ॥
स्वर्गवीयमयमप्सरोगणः पञ्च देवि! मुरपादपा इमे ।
एष सागरभवो मणिर्महानेप यूथपतिरेष सैन्धवः ॥ २७ ॥
त्वं गृहाण वितरानुयायितां मां नियोजय यथापुरं तु वा ।
त्वं प्रमाणममरश्रिया समं द्यौरियं तव पदे निवेदिता ॥ २८ ॥
आगतां नरचमूमतर्कितां तावकीति कथमप्यजानता ।
प्रत्यवस्थितमिव क्षण हि यत् तत् क्षमस्व शरणागते मयि ॥ २९ ॥
इत्थमुक्तवति पाकशासने सा जगाढ़ शरणागतप्रिया ।
क्षान्तमेव निखिलं मयाधुना शान्तचेतसि पुरन्दर ! त्वयि ॥ ३० ॥
स्वीकृत तदखिल त्वयार्पितं स्वीकृतं पुनरिदं मया तव ।
एक एव गतशङ्कमिन्द्रतां वर्त्तय त्वमिह वासरे विधेः ॥ ३१ ॥
सुन्दरेशमभिषेक्तुमर्चितुं न्वर्गवी सुरतरूंश्च केवलम् |
मामनु प्रहिणु वासवेति सा तं विसृज्य चलिता ततः पुर. ॥ ३२ ॥
आनकध्वनिभिरश्चद्वेषितैः क्ष्वेलितैद्विरेदबृंहितैरपि ।
प्रज्वलन्नपि शशाम पावकः पाण्ड्यराजदुहितुर्विनिर्गमे ॥ ३३ ॥
मा विधेहि सुमतेऽभिषेणनं रुन्धि रुन्धि चलितां पताकिनीम् ।
मामको हि जनको हुताश इत्यादिदेश मलयध्वजात्मजा ॥ ३४ ॥
यावदित्थमनुशास्ति सा चमूं तावदेव तनयादिदृक्षया ।
मङ्गलान्युपहरन्नुपायनान्याजगाम धुरि हव्यवाहनः ॥ ३५ ॥
सावरुह्य सहसा शताङ्गतः सम्प्रणम्य मुदिता हुताशनम् ।
प्रार्त्थिता मुहुरनेन तानि च प्राभृतानि विविधान्युपाददे ।। ३६ ॥
जम्बुसिन्धुतटसम्भवा निशा नीलशैलशिरगहृता गया ।
अम्बराणि मणयश्च भास्वराः स्वाहया पृथगथोपजहिरे ॥ २७ ॥

 १. इदं मत्स्वीकृत पुन: प्राग्वत् मया तव स्वीकृतम् अस्व स्व सम्पद्यमानं कृतम् इति पा- दार्थः । त्वदर्पितं सर्व स्वीकृत्य मया तुभ्य प्रत्यर्पितमिति अधीभिप्रायः २. निशा हरिद्रा.


+ 'पुरीम्' इति खपुस्तके पाठः