पृष्ठम्:शिवलीलार्णवः.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
दशमः सर्गः ।


अथ दशमः सर्गः ।

• दिक्पतीनथ विजेतुमुत्सुका देवशैलशिखराग्रवर्त्तिनः ।
उत्पपात सह सैनिकैर्दिवं स्यन्दनेन महता तटातका
सज्जसिन्धुरतरङ्गसङ्कुला सा दिवि प्रचलिता पताकिनी ।
आववार सहसामरावतीमप्रतर्कितनिरोधविह्वलाम् ॥ २॥
सत्पथोत्पतनजातकौतुकस्तब्धमुक्ततुरगा शनैः शनैः ।
यावदाप न दिवं तटातका तावदत्र ववृते महान् रणः ॥ ३ ॥
तद्भटाश्चिरनिरुद्धदोर्मदाः सम्प्रहारविमुखेषु राजसु ।
तं महाहवमुपस्थितं सुरैर्भागधेयफलमित्यमंसत ॥ ४ ॥
नित्यमुन्मुखचरान् सुरद्विषान् सायकैरिव निपात्य शायितान् ।
कीटपेषमपिषन् संसादिनः पद्भिरेव करिणो मदोद्धताः ॥ ५ ॥
यत्तदाहवभुवि प्रवर्त्तितं लोहितं निपतितं क्षमातले ।
अग्रतः सुरगिरेरिलावृते लोहितोदमिति तच्छ्रुतं सरः ॥ ६ ॥
दिग्जये भुवि हता रणेषु ये द्योचराः समभवन्निरोधिनः ।
ते निपेतुरुपजातमन्यवस्तेजसीव शलभाश्चमूमुखे ॥ ७ ॥
अभ्युपेयुरधरेद्युरेव यान् संप्रसाद्य बहुधा जयाय य ।
सम्प्रजद्दुरपरेद्युराहवे सैनिकाः सुमनसस्त एव तान् ॥ ८ ॥
भर्सिंता दिविचराश्चमूचरैस्त्वकृतेन युधि हुङ्कृतेन च ।
देवमानवदशाविपर्ययं वीक्ष्य वीक्ष्य वितथं निशश्वसुः ॥ ९॥
स्वे बले परबले च ये हतास्तान् द्वयानपि समेत्य देवताम् ।
तत्क्षणात् पुनरुपस्थितान् रणे वीक्ष्य विस्मयमवाप सा चमूः ॥ १० ॥
तान् निरीक्ष्य समशीर्षिकान् रणे सैनिकेषु कतिचिन्महारथाः ।
सम्प्रबोध्य मलयध्वजात्मजां सन्निपेतुरनपेशिनासवः ॥ १ ॥
भूसुरवमुपभुज्य केवलं ते हि पुष्टवपुषो दिवौकसः ।
तन्मुखे शिथिलतां जगाहिरे सेतवः पयसि सैकता इव ॥ १२ ॥


 १. कीटपेषं कांटमिवेत्यर्थः २. ससादिनः निषादिसहितान् । 'सादी तुरङ्गमातङ्गरथारोहेषु दृश्यते' इति मेदिनी.