पृष्ठम्:शिवलीलार्णवः.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
शिवलीलार्णवे


शार्दूलसिंहशरभद्विरदाच्छभल्लवाहद्विषवृकवराहपराहतेषु ।
शृङ्गेषु मार्गरंहितेष्वपि सा हिमाद्रेः सेना जगाम सुरसिन्धुमनुद्रवन्ती ॥ ६८ ॥
इत्थं हिमाद्रिशिखरादवतीर्य मन्दं वर्षेऽथ किम्पुरुषनामनि सा विशन्ती ।
नोदन्ययोपससृजे न बुभुक्षया वा नाध्वश्रमेण पृतना न च घर्मतोयैः ॥ ६९ ॥
| अज्ञातमेघजलमश्रुतसस्यभेदमर्थोपसङ्ग्रहणदानकथानभिज्ञम् ।
देशं समीक्ष्य सुमति"र्धृतविस्मयोऽपि कामं बभूव स करग्रहणे निराशः ॥ ७० ॥
स्वच्छानि भौमसलिलानि सुधाधिकानि सौरभ्यवन्ति च फलानि महीरुहाणाम् ||
दृष्ट्वैव तृप्तिभरितेषु चमूचरेषु कौतूहलेन जगृहुः कतिचित्तु तानि ॥ ७१ ॥
सन्त्यद्भुता द्रुमलता मृगपक्षिभेदाः सन्ति स्त्रियोऽपि सुरयौवतनिर्विशेषाः ।
किन्तु क्षितिं विमलसत्त्वमयीं गतास्तां न क्वापि लोभमलभन्त चमूचरास्ते || ७२ ||
धन्यान् जटापटलनीडसुखप्रसुप्त नाना विहङ्गकुलनादविनीतखेदान् ।
अध्यात्मयोगनिरताननुगृह्णती सा मन्दं जगाम जननी जगतां त्रयाणाम् ॥ ७३ ॥
कालाद् बहोर्मुनिकुलेन कथञ्चिदन्तनवारशूकवदलक्ष्यत केवलं यत् ।
तद् दृश्यते स्म तरुणारुणकोटिदीप्रं कान्तामयं कलितकार्मुकमात्मतत्त्वम् ॥ ७४ ॥
उच्चावचैः वः शमधनाः पृतनाचराणां कोलाहलैः श्रुतिगणैरिव बोध्यमानाः |
कन्दं फलं सलिलमप्युपजहिरे यत् तत् सम्प्रगृह्य बुभुजे स्वयमम्बिका सा ७५॥
सा तद्व्यतीत्य समुपत्य च हेमकूटं तेनाध्वना च हरिवर्षमनुप्रपन्ना ।
तस्योत्तरं निषधभूधरमारुरोह प्राक्पश्चिमार्णवतरङ्गकृताभिषेकम् ॥ ७६ ॥
तस्मिन् गिरौ प्रचलिता पथि पश्चिमेसा मेरुं प्रदक्षिणतया परिवेष्टयन्ती ।
वासं किटेः क्रतुमयस्य हि केतुमालं वर्षे निनाय बलमुच्छ्रितकेतुमालम् ॥ ७७ ॥
भक्त्या प्रणम्य भगवन्तमभिष्टुता सा विज्ञेन तेन वसुधाभरणश्रमाणाम् ।
तद्दर्शितेन च पथा समवाप नीलं शैलं निजेन यशसा विशदं समन्तात् ॥ ७८ ॥
सा रम्यकं समतिलङ्घय हिरण्मयं च श्वेतं च शृङ्गिणमतीत्य महीधरौ द्वौ ।
प्राप्तोत्तरानथ कुरून् प्रयता ववन्दे पाण्ड्यात्मजा भगवतः प्रथमावतारम् ॥ ७९ ॥
ये नोदहारिषत वन्दिगणाः स्वकीया जैत्रध्वजो जयति यश्च निजे शताङ्गे ।
तेनादृता तदुपदर्शितमालुलोके सा तत्र वारिनिधिमुत्तरमुत्तरङ्गम् ॥ ८० ॥


  • 'तिः कृत' इति खपुस्तके पाठः.

·