पृष्ठम्:शिवलीलार्णवः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
तृतीयः सर्गः ॥


शिबिकामधिरुह्य जातु गच्छन् स महर्षीनू विनियुज्य तत्र धुर्यान् ।
असकृन्निजगाद सर्प सर्पेत्यपि तं कुम्भभवस्तथा भवेति ॥ २९ ॥
अशनिर्ह्यसमाप्त एव भोगे पतितो मूर्धनि तस्य शापरूपः ।
अत एव पतन्नपि क्षमायां नहुषो न त्यजति स्म भोगिभावम् ॥ ३० ॥
चिरलुप्तकथे मघोनि तस्मिन्नपि तस्य प्रतिरूपके प्रनष्टे ।
अधिगन्तुमनाः प्रवृत्तिमैन्द्रीं युयुजे योगदृशा गुरुः सुराणाम् ॥ ३१ ॥
सरसीरुहनाळतन्तुलीनं सरसि क्वापि समेत्य योगगूढः ।
प्रतिबोधयति स्म देशिकम्तं करणीयं करुणाप्लुतैर्वचोभिः ॥ ३२ ॥
चकितः समयं कियन्तमस्मिन् सरसि स्थास्यसि खेदयन्नमर्त्त्यान् ।
न हि सम्यगनिष्कृतं तदेनः प्रळये प्राकृतिकेऽपि मुञ्चति त्वाम् ॥ ३३ ॥
सकलाघनिबर्हणे समाधौ वसतस्तस्य वधे तु कः समाधिः ।
चरणं पारहृत्य चन्द्रमौलेः शरणं संसरतां विरिञ्चात् ॥ ३४ ॥
चर पाशुपतव्रतं चरन् सन्नवनावायतनानि शाम्भवानि ।
अनुयास्यति केवलं न तु त्वामधिकुर्वीत शिवाज्ञ्या तदेनः ॥ ३५ ॥
विशतस्तव यत्र सम्प्रसीदत्यमृतेनेव विशोधितोऽन्तरात्मा ।
करुणावरुणालयो महेशः कलुपं तत्र निवारयिष्यतीति ॥ ३६ ॥
स तथेत्यभिनन्द्य शासनं तत् कलितस्वस्त्ययनश्च देशिकेन ।
अधिरुह्य सुरद्विपं प्रतस्थे विविधान्यायतनानि विश्वमूर्तेः ॥ ३७॥
स गिरीन् हिमशैलकन्दरादीन् सरितो जह्नुमुताकलिन्दजाद्याः ।
विपिनानि च नैमिशादिमानि व्यचरत् पाशुपतव्रती महेन्द्रः ॥ ३८ ॥
स तपोवनदर्शमध्युवास प्रयतः सन्निममज्ज तीर्थदर्शम् ।
द्विजवेदमतर्पयद् धनौघैर्ब्रतवेदं नियतः समाचचार ॥ ३९ ॥
त्रिविधान्यपि शाम्भवानि लिङ्गान्ययजद्वस्तुभिरान्तरैश्च बाह्यैः .
लभते स्म न शान्तिमात्मनोऽयं क्वचिदप्येषु कुतो पातकस्य ।। ४० ।।



१. भोगिभाव मुखित्वं सर्पत्व च. २. तपोवनदर्श सर्वाणि तपोवनानि दृष्ट्वा । 'कर्मणि
दृशिविदोः साकल्ये' (३-४-२९) इति णमुल्.