पृष्ठम्:शिवलीलार्णवः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
द्वाविंशः सर्गः ।


अक्षय्यमप्यक्षतमर्पयन् यो भक्ताय भक्तार्पणमन्वगृह्णात् ।
येनादृतो मातुलरूपभाजा वैश्यो वटुर्ज्ञातिजनान् विजिग्ये ॥ ७८ ॥
आस्थाय यश्चार्जुननाथलिङ्गं पाण्ड्ये महत् पातकमुन्ममार्ज ।
काष्ठानि मूर्ध्ना कलयन् न्यधत्त काष्ठां परां गायति यः स्वभक्ते ॥ ७९ ॥
भद्राय भूरि द्रविणं दिदेश पुत्रं ददौ चेरमहीभुजे यः ।
भद्राय दिव्यं फलकं दिदेश वृष्टौ महत्यामपि गायते यः ॥ ८० ॥
द्वीपान्तरीयामवमापि गीत्या भद्रा विजिग्ये यदनुग्रहेण ।
वाराहमास्थाय वपुर्ददौ यः स्तन्यामृतं कोलकिशोरकाणाम् ॥ ८१ ॥
प्रापय्य मानुष्यकमद्भुतं यः पाण्ड्यस्य तान् मन्त्रिपदेऽभ्यषिञ्चत् ।
यः खञ्जरीटं शरणं प्रपन्नं चक्रे बलिभ्यो बलिनं खगेभ्यः ॥ ८२ ॥
जहार कोयष्टिमनुग्रहीतुं यादांसि यः काञ्चनपङ्कजिन्याः ।
कल्पान्तलुप्तां कटकाहिना यः सीमां विवव्रे मधुरानगर्याः ॥ ८३ ॥
प्राद्रावयत् पाण्ड्यकृतेऽरिसेनां बाणैः स्वनामाक्षरलाञ्छितैर्यः ।
दुरासदं दुष्कविभिः स्वयं यः प्रादाद् विचित्रं फलकं कवीनाम् ॥ ८४ ॥
पाण्ड्यस्य चिन्तानुगुणं निबध्य पद्यं ददौ यश्च निजार्चकाय ।
विद्याविवादे विहितातिवादं कीरं कविं यः पुनरन्वगृह्णात् ॥ ८५ ॥
अपि स्वयं कुम्भभवेन यस्तमबोधयद् द्रामिडसूत्रतत्त्वम् ।
व्यवेचयन्मूकमुखेन यश्च तत्तत्कृता द्रामिडसूत्रवृत्तीः ॥ ८६ ॥
भक्ते कवौ क्वापि विमाननेन पाण्ड्याय कुप्यन्नगराद्ययौ यः ।
दाशो भवन् दाशकुलेऽवतीर्णां जग्राह पाणौ जगदम्बिकां यः ॥ ८७ ॥
आचार्यमूर्ति परिगृह्य नम्रमदीक्षयद् वातपुरीश्वरं यः ।
अदर्शयद् यस्तुरगान् सृगालानभ्यर्थितो वातपुरीश्वरेण ॥ ८८ ॥
प्रावर्त्तयद् वेगवतीमथैनं पाण्डयेन यः पालयितुं निरुद्धम् ।
विश्वात्मता यो विशदीचकार वेत्राहतिं स्वां भुवने विवृण्वन् ॥ ८९ ॥
सम्बन्धनाथस्य मुखादकार्षीच्छान्तं ज्वरं पाण्ड्यमहीपतेर्यः ।
विद्याविवादे विजिताननेन यः शूलमारोपयति स्म बौद्धान् ॥ ९० ॥