पृष्ठम्:शिवलीलार्णवः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
शिवलीलार्णवे


आनीय यः कूपशमीमहेशान् वैश्याविवाहे विववार साक्ष्यम् ।
लीलास्वनन्तास्वपि यस्य दृष्टा लीला चतुष्षष्टिरियं पुराणे ॥ ९१ ॥
आलम्बमेकं जगतां त्रयाणामव्याजकारुण्यसुधानिधानम् ।
तं तादृशं त्वामपहाय शम्भो ! किं तावदन्यैरिह किम्पचानैः ॥ ९२ ॥
इतिं॰ स्तवोक्त्या मुदितः सुराणामीशः स वैश्यां सह बल्लभेन ।
निर्विष्टभोगामवनौ चिराय निन्ये परं धाम दयार्द्रचेताः ॥ ९३ ॥
इत्थं समस्तार्त्तिहरः प्रजानामीशः कदम्बद्रुममूलधामा ।
आस्ते त्रिलोकीमनुकम्पमानः साचिव्यतो मीनविलोचनायाः ॥ ९४ ॥
श्रोतव्यं निधिरस्ति कोऽपि निहितो हालास्य इत्यग्रतो
मन्तव्यं स निधिर्जगन्निधिरिति न्यायैरथोञ्चावचैः ।
ध्यातव्यं हृदि मूललिङ्गमथ च श्रीसुन्दरेशाभिधं
द्रष्टव्यं शफरेक्षणासहचरं तत्त्वं ततः शाङ्करम् ॥ ९५ ॥
लीलां चतुष्षष्टिमिमां प्रणतां हालास्यनेतुस्तरुणेन्दुमौलेः ।
श्रीनीलकण्ठे मयि कर्णजाहमानीय मीनाक्षि ! चिरं दयेथाः ॥ ९६ ॥
कृतिः समर्ध्या विरसा मयेति कस्यैष दोषः स परं भवान्याः ।
रम्यां कृतिं सा यदि रोचयेत तथानुगृह्णातु निवारितं कैः ॥ ९७ ॥
मा भूवन् नव च रसाः कविप्रणीताः
काव्येऽस्मिन् पदकमलार्पिते पुरारेः ।
आस्ते तु ध्रुवमखिलाभिनन्दनीयां
कारुण्यामृतरसकन्दली जनंन्याः ॥ ९८ ॥
हालास्येशितुरीशितुर्यदि सखे ! लीलासु शुश्रूषसे
तत्सर्वागमगुप्तमस्य यदि वा तत्त्वं विजिज्ञाससे ।
पारं वाथ दिदृक्षसे यदि परं काव्यागमस्रोतसां
तत् कर्णे कुरु नीलकण्ठमखिनो वाचं शिवैकाश्रयाम् ॥ ९९ ॥

१. 'लीलाचतुष्षाष्टे' इति पाठः स्यात् ।

§ इतः प्रभृति ९८ तमश्लोकप्रथमपादावधिकानि अक्षराणि त्रुटितानि कपुस्तके.