पृष्ठम्:शिवलीलार्णवः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
शिवलीलार्णवे


समाहृताः काञ्चनमालिकायाः स्नानाय येनाम्बुधयः समस्ताः ।
महीपतिं यो मलयध्वजं च दिवं गतं दर्शयति स्म पत्नीम् ॥ ६५॥
मीनेक्षणायां सुतमुग्रपाण्ड्यमवाप यः सुन्दरपाण्ड्यदेवः ।
तस्मै च यं शक्तिधराय वज्रं चण्डायुधं चक्रमपि व्यतारीत् ॥ ६६ ॥
उद्वेलमप्यर्णवमुग्रपाण्ड्यो यद्दत्तया शोषयति स्म शक्त्या ।
वज्रेण मौलिं बिभिदे मघोनश्चण्डायुधेनापि जघान मेरुम् ॥ ६७ ॥
आचष्ट यश्चाशयमागमानां जिज्ञासमानेषु तपोधनेषु ।
यद्दत्तरत्नाहितमौलिनैव पाण्ड्यार्भको राजपदेऽभिषिक्तः ॥ ६८ ॥
कपर्दजैर्यस्य घनाघनौघैः पपे पयोधिः परिजृम्भमाणः ।
प्राप्तैश्च तैर्यः पटमण्डपत्वमवारयद् वृष्टिमतिप्रवृद्धाम् ॥ ६९ ॥
सिद्धात्मना यो विततार सर्वाः सिद्धीः प्रजानां मधुरानगर्याम् ।
यः सुन्दरेशानविमानसक्तं शिलागजञ्चाशयदिक्षुकाण्डान् ॥ ७० ॥
अस्त्रेण तुर्यावतरेण शौरर्हस्ती हतो येन तथागतानाम् ।
श्वश्रूदुरालापविवासिताया यः प्रादुरासीद् द्विजकन्यकायाः ॥ ७१ ॥
व्यत्यस्य नृत्तं विदधे दयालुः पाण्ड्यस्य यः प्रार्थनया महत्या ।
पान्थद्विजस्त्रीवधपापवादं व्याजेन यो व्याधवटोरहार्षीत् ॥ ७२ ॥
स्वमातृजारं पितृघातिनं च विप्राधमं यो विमलीचकार ।
अङ्कस्य भार्याहरमस्त्रशिष्यमङ्कात्मनैवाजयदाहवे यः ॥ ७३ ॥
मायोरगं यः शमयाम्बभूव मायागवीं यस्य पुनर्महोक्षः ।
मः पाण्ड्यसेनान्यमनुग्रहीतुं सन्दर्शयामास चमूं नृपालम् ॥ ७४ ॥
पाण्ड्याय यः प्रादित हेम यश्च वैश्याङ्गनाभ्यो वलयान् दयार्द्रः ।
अष्टापि सिद्धीः प्रतिपादयन् यो यक्षाङ्गनासु प्रससाद भूयः ॥ ७५ ॥
द्वारं समुद्घाट्य निशि स्वयं यश्चोलाय सेवामदिशन्निगूढम् ।
पानीयदानेन च पाण्ड्यसेनामुज्जीव्य चोलेन्द्रमजापयद् यः ॥ ७६ ॥
स्वर्णे दिशन् सिद्धरसं प्रयुज्य पुपोष वेश्यां शिवधर्मिणीं यः ।
पाण्ड्यस्य यः स्वैकपरायणस्य सादी भवन् साधयति स्म चोलम् ॥ ७७ ॥