पृष्ठम्:शिवलीलार्णवः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
द्वाविंशः सर्गः ।


पाण्ड्यप्रियं त्वां विदती शिवापि पाण्ड्यात्मजासीद्यदि का कथा नः ।
पाण्ड्येषु जायेमहि खञ्जरीटाः कोयष्टयः कोलकिशोरका वा ॥ ५३ ॥
लीलासु ते लब्धसरूपभावा ग्राम्या इमे पाण्डुषु चन्द्रमौले ! ।
जिघ्रन्ति केचिद् विलिखन्ति केचिच्चर्वन्ति केचिञ्च वतंसमिन्दुम् ॥ ५४ ॥
त्वं तावदत्यन्तमृदुः प्रजासु त्वत्तोऽपि मृद्वी गृहिणी तवेयम् ।
अद्यायतौ वा चरतोः किलैवमात्मैकशेषो भविता ध्रुवं वाम् ।। ५५ ।।
कैवल्यदानाय कृतप्रतिज्ञौ काशीपतिः पाण्ड्यपतिर्युवां द्वौ ।
शिष्यैकविश्रान्तममुष्य दानं सार्वत्रिकं तावकमेव शम्भो ! ॥ ५६ ॥
विश्वस्य दीर्घं श्रवणादिभङ्गीं वीतोद्यमाः स्मश्विरमीश ! मोक्षे । 1
सम्प्रत्यवाबुद्ध्यत वाक्यशेषपञ्चाक्षरीयं मधुरा विनेति ॥ ५७ ॥
ये ये जना यद्यदिहार्थयन्ते तत्तन्निरस्तोपधि तेषु तेषु ।
ओमित्यलोभादनुजानतः किमोमित्यभिख्यैव तवेयमासीत् ॥ १८ ॥
अन्वेषणीयं किमनाहते ते तत्त्वं हताः स्मो वयमागमौघैः ।
विस्पष्टमत्राहत एव तत्त्वं वेत्रेण पाण्ड्यस्य यदीक्षितं तत् ॥ ५९ ॥
स्वरूपमेतत् तव सुन्दरेश ! शुद्धा दयेत्येव तु लक्षयामः ।
कदम्बमूलन्तु तटस्थलक्ष्म कारुण्यसिन्धो ! तव तर्कयामः ॥ ६०
यद्धामसीमाक्रममात्र एव वृत्रद्रुहस्तत् कलुषं विलिल्ये |
सकृद् विगाह्यैव यदीयतीर्थे शापं मुनेरिन्द्रगजो मुमोच ॥ ६१ ॥
नीपाटवीं यः कुलशेखरेण निर्मापयामास च राजधानीम् ।
प्राप्ता शिवा पाण्ड्यकुलेऽवतारमनुज्ञया यस्य तटातकेति ॥ ६२ ॥
उपायत स्वं युधि जेतुकामामुपायतस्तामपि लीलया यः ।
पतञ्जलेर्भक्तिमवेत्य नृत्तं प्रादर्शयद् रूप्यसभान्तरे यः ॥ ६३ ॥
कुण्डोदरस्योदरपूरणेऽपि कुण्ठोयमा येन कृतान्नपूर्णा ।
नालं पिपासोपशमाय यस्य नदी च सा वेगवती यतोऽभूत् ॥ ६४ ॥

१. काशीपतिर्विश्वेश्वरः