पृष्ठम्:शिवलीलार्णवः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
शिवलीलार्णवे


शम्भुः शमी कूप इति त्रयं तत् तत्र स्थितं साक्षिपदे वृणानः ।
अग्राहयत् पाणिमनेन सद्यः स देशिको मातुलकन्यकायाः ॥ ४० ॥
स तां समादाय वधूं नवोढां सम्प्राप्य भूयो मधुरां विशालाम् ।
आराधयन्नार्तशरण्यमीशं हालास्यनाथं मुमुदे चिरेण ॥ ४१ ॥
कालेन तस्यास्तनया बभूवुः कारुण्ययोगेन शशाङ्कमौलेः ।
स्तनन्धयांस्तानपथे द्विषत्या सा जातु लेभे कलहं सपत्न्या ॥ ४२ ॥
वेश्येव काचित् त्वमसीह गेहे करग्रहे कस्तव दासि ! साक्षी ।
इति प्रवृत्तं कलहेऽतिवादमेषा सपत्न्या ममृषे न साध्वी ॥ ४३ ॥
सा बाष्पमत्यूष्मलमुद्वहन्ती सद्यो विनिर्गत्य गृहाद् विषण्णा ।
आपन्नबन्धोश्चरणं पुरारेर्हालास्यनेतुः शरणं प्रपेदे ॥ ४४ ॥
साक्षी भवानेव करग्रहे मे शम्भो ! शमीकूपसमीपवर्ती ।
साक्ष्यं न धत्से यदि मे सपत्न्याः सद्यो विहास्यामि तनूमिहेति ॥ ४५ ॥
हालास्यनाथान्तिकमभ्युपेत्य सम्पश्य पाणिग्रहसाक्षिणो मे ।
इति त्वमाकर्ष बलात् सपत्नीमित्याह तां व्योमगिरा महेशः ॥ ४६ ॥
सा प्रेयसा बन्धुजनैश्च साकं तामानयन्ती प्रसभं सपत्नीम् ।
यावच्छिवस्यान्तिकमेति तावत् तत्र स्वयं तत् त्रयमाविरासीत् ॥ ४७ ॥
इमे समेताः सदनं पुरारेरीशानकोणेऽस्य कदाप्यदृष्टम् ।
अन्धुं शमीवृक्षमनाथबन्धुं लिङ्गं च दृष्ट्वा बिभयाम्बभूवुः ॥ ४८ ॥
भोगाङ्गपूजावसरे पुरारेः समागतास्तत्र सुराः समस्ताः ।
आलोक्य लीलायितमद्भुतं तद् भक्त्या नतास्तुष्टुवुरिन्दुचूडम् ॥ ४९ ॥
क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः ।
अहो जितं सुन्दरनाथ ! मर्त्यैरहो जितं तत्र च दीनदीनैः ॥ १० ॥
गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः ।
कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ ५१ ॥
अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः ।
इति त्वया चिन्तयता किमीश ! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ५९ ॥


१. 'तद' इति खपुस्तके पाठः.