पृष्ठम्:शिवलीलार्णवः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
द्वाविंशः सर्गः ।


ते बोध्यमाना अपि शैवधर्मं शूलाधिरोहाय रुचि बबन्धुः ।
प्राणान्तिकां निष्कृतिमेव युक्तां पश्यन् स चैतेषु तथानुमेने ॥ २७ ॥
पाण्ड्यस्ततः प्रत्ययदर्शनेन सम्बन्धनाथं शरणं प्रपन्नः ।
अशेषपापच्छिदुरामयाचद् दीक्षां शिवज्ञानविधानदक्षाम् ॥ २८ ॥
आचार्यवर्योऽप्यधिवासितं प्राक् छिष्यं शुभस्वप्ननिरस्तशोकम् ।
आराधितस्य ज्वलने पुरारेरनुज्ञया सन्निधिमानिनाय |॥ २९ ॥
षडध्वनः पञ्च कलाश्च तस्य संशोधयन् देशिकसार्वभौमः ।
दुर्दीक्षया दूषितमप्ययत्नात् सम्भावयामास शरीरकोशम् ॥ ३० ॥
शरीरमाविश्य स तस्य नाडीसंधानमार्गेण गुरुः पुनानः ।
जातिं समुद्घृत्य दयासमुद्रश्च के शिवज्ञाननिधानमेनम् ॥ ३१ ॥
वित्तं शरीरं हृदयं च तस्य विन्यस्य पाण्ड्यश्चरणारविन्दे ।
अभ्यर्थयन्नर्धशशाङ्कचूडं शैवाध्वपान्थः प्रशशास पृथ्वीम् ॥ ३२ ॥
शिवव्रतस्थाः शिवमन्त्रसक्ताः शिवागमज्ञानसुधारसज्ञाः ।
प्रजा बभूवुः सकलास्तदानीं प्रजेश्वरे शैवपदाधिरूढे ॥ ३३ ॥
अध्यात्मविद्याभिरयं प्रबुद्धान् मन्दान् विचित्राभिरुपासनाभिः ।
बाह्यार्चनैरेव परांश्च शम्भोर्धीरोऽनुजग्राह यथाधिकारम् ॥ ३४ ॥
अधीष्व वेदानवधारयार्थानधीहि शम्भुं वह भूतिमङ्गे |
तपांसि तप्यस्व सुरान् यजेति सर्वे जनाः शङ्करमारराधुः ॥ ३५ ॥
काले ततो वैश्यकुले बभूव कश्चिन्महार्थो मधुरानगर्याम् ।
करग्रहं मातुलकन्यकायाः कर्त्तु प्रतस्थे स कदापि चोलान् ॥ ३६ ॥
अतीतयोर्मातुलयोस्ततस्तामादातुकामः स्वजनानुमत्या ।
वैश्यस्तया साकमनूढयैव भूयः स्वमावासमभि प्रतस्थे ॥ ३७॥
मध्येपथं क्वापि महेशधाम्नि शैवानि तीर्थान्यटता स दिष्ट्या ।
सम्बन्धनाथेन समाजगाम सञ्जीवितश्चात्र स सर्पदष्टः ॥ ३८ ॥
सम्बन्धनाथेन तदा नियुक्तः स बालिकोद्वाहकृते कुमारः ।
पाणिग्रहं साक्षिषु बान्धवेषु चिकर्षिमाणः समशेत किञ्चित् ॥ ३९ ॥


१. 'अधीष्व अधीतवन्त इत्यर्थः । समुच्चयेऽन्यतरस्याम् (३-४-३) इाते लोट् । एवं अधीही- त्यादिष्वपि.