पृष्ठम्:शिवलीलार्णवः.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
शिवलीलार्णवे


औदर्यवह्निज्वलनोत्थितां तामार्त्ति निवृत्तां मुमुदे स पश्यन् ।
देवी तु शान्तं विदती जहर्ष भवज्वरज्वालमहाभिषङ्गम् ॥ १४ ॥
तापज्वरो भूमिभृतः शरीरात् तस्यापनीतः करुणादृशायम् ।
तैथागतानां द्विगुणस्तदादि चिन्तात्मना चेतसि सञ्जजृम्भे ॥ १५ ॥
अष्टौं सहस्राणि तथागतानामष्टासु शैलेषु कृतास्पदानाम् ।
जातेऽभिषङ्गे मधुरामवापुर्जल्पेन जेतुं शिवदेशिकं तम् ॥ १६ ॥
पारीणमेनं पदवाक्यमाने त्रय्यन्तसिद्धान्तगुरुं महान्तम् ।
आसाद्य जल्पाय सकृत् प्रवृत्ता आसन् क्षणादप्रतिभा जिनेन्द्राः ॥ १७ ॥
उत्सृज्य सर्वाण्युपबृंहणानि मीमांसितन्यायदृढीकृतानि ।
उल्लङ्घय तर्कानपि पामरास्ते सम्भूय तं प्रेत्ययतोऽजिगीषन् ॥ १८ ॥
संसारतापानखिलान् निहन्तुं शक्नोत्यहिंसैव हि शाक्यदृष्टा ।
नार्च्य महेशो न शिवा विभूतिरित्यार्हताः स्वामलिखन् प्रतिज्ञाम् ॥ १९ ॥
वेदाः प्रमाणं सह कामिकाद्यैर्विश्वाधिकः शङ्कर एक एव ।
भस्मैव धार्यं भुवि मोक्षमाणैरित्यालिखत् स्वां स गुरुः प्रतिज्ञाम् ॥ २० ॥
जैना अथोचुर्ज्वलने क्षिपामो द्वये वयं स्वस्वकृतान्तलेखम् ।
दाहाददाहादपि सर्वलोकाः पश्यन्तु नो भङ्गजयाविहेति ॥ २१ ॥
तथेति सम्बन्धकरार्पितेन लेखेन जग्लेऽपि न हव्यवाहे ।
अदह्यत द्राक् पुनरार्हतानां लेखः सहायुर्लिपिभिस्तु तेषाम् ॥२२॥
पराजये शूलशिखाधिरोहं पणं वृणानाः स्वयमेव जैनाः ।
विचिक्षिपुः स्रोतसि वेगवत्याः पत्रं प्रवाहाभिमुखं चलेति ॥ २३ ॥
तत् स्रोतसा तत्क्षणमेव सिन्धोरनीयत प्राग्दिशमासमुद्रात् ।
प्रत्यग्दृशा तद् गुरुणार्पितं तु प्रत्यङ्मुखं स्रोतसि सञ्चचाल ॥ २४ ॥
ततः क्षणाद् देशिकसार्वभौम विज्ञानसिन्धोरिव वीचिघोषः ।
समन्ततः शङ्करकिङ्कराणां समुज्जजम्भे विजयाट्टहासः ॥ २५ ॥
चार्वाकशिष्या विजितास्ततस्ते सौत्रान्तिका माध्यमिकाश्च जैनाः ।
अवीक्षितान्योन्यमुखाः प्रचेलुरारोदुकामाः स्वयमेव शूलम् ॥ २६ ॥


१. तथागतानां जैनानाम् . २. प्रत्ययतः शपथात्.