पृष्ठम्:शिवलीलार्णवः.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
द्वाविंशः सर्गः ।


अथ द्वाविंशः सर्गः ।

अथाविरासीदरिमर्दनस्य कुले नृपः कोऽपि गुणैरुदारः ।
अभ्युन्नतं स्फारतरैर्यशोभिराचक्षते यं किल कुब्जपाण्ड्यम् ॥ १ ॥
स पाण्ड्यवंशप्रभवोऽपि देवः संसर्गदोषाच्चिरमार्हतानाम् ।
अवाप दीक्षामपि तन्मतेन दुरुत्तरो दुर्जनसम्प्रयोगः ॥ २ ॥
आशङ्कनीयोऽपि न वेदवेद्योराब्रह्मणो यत्र किलान्तरायः ।
तस्मिन् विशुद्धे शिवदासवंशे सम्बन्ध इत्याविरभूत् कुमारः ॥ ३ ॥
तं मातृहीनं शिशुमुल्ललन्तं स्तन्येन गौरी बिभराम्बभूव ।
यं ज्ञानपूर्णापरनामधेयं तदादि लोकाः समुदाहरन्ति ॥ ४ ॥
स्कन्दांशजः स द्विजसार्वभौमस्तारुण्य एवाखिलतन्त्रवेदी ।
त्रय्यन्तसिद्धान्तदृशा पुरारेरुत्कर्षमुच्चैर्विशदीचकार ॥ ५ ॥
तं भस्मरुद्राक्षषडक्षराणां तत्त्वावबोधैकनिधिं महान्तम् ।
आराध्य केचित् कलिमभ्यजैषुः पचेलिमप्राक्तनपुण्ययोगात् ॥ ६ ॥
तथागताचार्यकदुर्विपाकतमोवृते राजकुले तदानीम् ।
मन्त्री च राज्ञो महिषी च तस्य भक्ति परामूहतुरिन्दुचूडे ॥ ७ ॥
सम्बन्धनाथाङ्घ्रिसरोजयोस्तावाबध्य भक्तिं महतीमनन्याम् ।
प्रायस्यतां त्रातुममुं प्रदर्श्य मनं नृपं बाह्यमतान्धकूपे ॥ ८ ॥
कदाचिदासीदथ कुब्जपाण्ड्यस्तापज्वरेण ज्वलताभिभूतः ।
यत्रार्हतानां नृपदेशिकानां यत्नः समस्तो विफलीबभूव ॥ ९ ॥
देवी तदा देशिकसार्वभौममारोग्यहेतोरवनीश्वरस्य ।
सर्वज्ञमभ्यर्थनया महत्या सम्बन्धनाथं स्वयमानिनाय ॥ १० ॥
स ज्ञानपूर्णः प्रविशन् दृशा तं सम्भावयामास रुजाभितप्तम् |
कोटीरकोटीन्दुगलत्सुधार्द्रमन्तःस्मरन् देवमहंग्रहेण ॥ ११ ॥
अत्याश्रमस्थो मुनिरस्य राज्ञो भाग्येन फाले भसितं निधाय ।
पस्पर्श हस्तेन च तं महेशपादारविन्दार्चनभावितेन ॥ १२ ॥
स स्पृष्टमात्रो भगवत्तरेण शिवाभिमर्शेन गुरोः करेण ।
तत्याज विश्वत्रयभेषजेन तापज्वरार्त्ति सहसा नरेन्द्रः ॥ १३ ॥