पृष्ठम्:शिवलीलार्णवः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
शिवलीलार्णवे


आनम्यानम्य मौलिं त्वयि किरति मृदं स्रंसते मूर्ध्नि गङ्गा
बद्ध्वाबद्ध्वा कपर्दे स्पृशति फणधरा दारुणं निश्श्वसन्ति ।
औत्सुक्यान् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या
भक्तस्यैकस्य रक्षा भवति पशुपते ! सर्वलोकस्य शिक्षा ॥ ९७ ॥
अस्मत्तो बहुधा गृहीतमधुनाप्यस्मद्भवस्रोतसां
संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः ।
इत्यग्रे विनिपत्य पाण्ड्यनृपतेर्ब्रूमो वयं चेत् ततः
कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ ९८ ॥
वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका-
न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् ।
इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान्
पिष्टापूपकृते मृदं बहास चेद् देवः प्रमाणं ततः ॥ ९९ ॥
प्रहृतं प्रहृतमिति त्वं पाण्ड्य ! विषीदसि किमम्बिकारमणे ।
प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ १०० ॥
पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः
पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः ।
तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने
त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥ १०१ ॥
इत्थं स्तवोक्त्या मुखरेषु पौरेष्वाश्चर्यममेषु गणाः पुरारेः ।
आपूपिकीमद्भुतवेषरूपां निन्युर्दिवं दिव्यविमानरूढाम् ।। १०२ ॥
अथावसीदन्नरिमर्दनोऽपि पाण्ड्यः स्वयं पाशुपतापचारात् ।
पादप्रणामैः प्रियभाषितैश्च प्रसादयामास स मन्त्रिवर्यम् ॥ १०३ ॥
वैहायसीं गिरमथाकलयन् पुरारेर्भीतस्तदैव सचिवं प्रजिघाय पाण्ड्यः ।
वैराग्यमेव हृदि वातपुरीश्वरोऽपि कृत्वा चिदम्बरमगाहत सर्ववेदी ॥ १०४ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णव एकविशः सर्गः ।