पृष्ठम्:शिवलीलार्णवः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
शिवलीलार्णवे


योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्‌ङ्घ्रिद्वये
कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः ।
वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते !
कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ ८२ ॥
हे सन्तः शृणुताधुनैव मिलितैरम्माभिरेतच्छिवे
वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति ।
नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति-
र्गण्डूषोदकसेक इत्यपि भवेत् सर्वे विभाज्यं हि नः || ८३ ॥
ध्यायंध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं
निर्विष्णो निरचैषमेकमधुना हालास्यचूडामणे ! |
दिष्ट्या वेगवतीतटे यदि पतेदेतद्वपुर्मामकं
संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ८४ ॥
धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी
भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः ।
मृद्धारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके
सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ८५ ॥
पद्भ्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै-
र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् ।
कामं त्वं जगदी * श्वरो भव ततः कर्माणि किं जीर्यति
प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ८६ ॥
देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं
मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् ।
पुष्पैश्चन्दन सम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते
तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ ८७ ॥
अम्ब ! स्विद्यति वक्रमम्ब ! किमपि श्रान्त्या गतिर्मन्थरा
मातः ! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः ।
इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा
प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ ८८ ॥


● 'श्वरोऽसि भवतः' इति खपुस्तके पाठः, + 'खलु' इति खपुस्तके पाठः