पृष्ठम्:शिवलीलार्णवः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
एकविंशः सर्गः ।


आलक्ष्य राजागममप्रमत्तान् कर्मान्तिकान् कर्मकृतः स पश्यन् ।
खनन्निव क्ष्मां मृदमापगायां क्षिपन्निवान्तः स्वयमप्यचारीत् ॥ ६९ ॥
'ततस्ततस्तत्र तटीर्निबद्धाः परामृशन् पाण्ड्यनृपोऽतिरुष्टः ।
अपूरितं क्वापि स वीक्ष्य निम्नं केनेदमित्थं कृतमित्यपृच्छत् ॥ ७० ॥
आपूपिकीकर्मकरं युवानमालक्षयन्तो गणकास्ततस्तम् ।
हस्ते गृहीत्वा पुरतः क्षिपन्तो विवव्रिरे तस्य विचेष्टितानि ॥ ७१ ॥
आपूपिकी काचिदतीव जीर्णा सेयं दृढं कर्मकरं न्ययुङ्क्त ।
अयं नियुक्तोऽपि भृतोऽपि सम्यङ् न स्पन्दते किञ्चन दुर्विनीतः ॥ ७२ ॥
ब्रूते पुरस्ताद् विनयोक्तिमेव किञ्चिन्निवृत्ते गणके तु भूयः ।
विडम्बयन् भाषितचेष्टितैस्तं पार्श्वस्थितान् हासयते विशङ्कः || ७३ ||
दत्तं कियद् दारुणया जरत्या दत्ते तु किञ्चिच्छिथिलानपूपान् ।
अहो ममाभाग्यमियं किलासीन्नाथेति शेते मुहुरातशोकः ॥ ७४ ॥
किं मेऽस्ति तातो जननी किमास्ते किमास्पदं किं धनमस्ति किञ्चित् ।
किं राजभृत्याः कृपणेषु कुर्युर्यातेति नोऽधः कुरुते कदापि ॥ ७५ ॥
अन्यायवृत्ते नृपतावमुष्मिन्नाप्लाव्यते किन्नगरं न तोयैः ।
किं ताडितैः कर्मकरैरिहेति तत्त्वं ब्रवीतीव कदापि मन्दम् ॥ ७६ ॥
आकर्णयन् वृत्तमिदं स सर्वमन्तर्हसन्तं च तमीक्षमाणः ।
आवर्त्त्य वेत्रेण तमाजघान पाण्ड्यः क्रुधा प्रस्फुरिताधरोष्ठः ॥ ७७ ॥
अङ्गं त्रिलोकीमयमिन्दुमौलेरभ्याहतं तेन यदा तदैव ।
वक्ता च हन्ता च निरीक्षिता च वेत्राहतं विश्वमभूत् समस्तम् ॥ ७८ ॥
आलम्ब्य संज्ञां कथमप्यथैनमालोकते यावदयं नरेन्द्रः ।
तावत् तिरोऽभूत् तरुणेन्दुमौलिः सा च स्रवन्ती विरराम सद्यः ॥ ७९ ॥
आलोक्य लीलायतमद्भुतं तदानन्दवाष्पस्थगितैर्वचोभिः ।
अस्ताविषुः स्वस्वधियोऽनुरूपैः पौराः सपाण्ड्याः पतिमम्बिकायाः ।। ८० ॥
चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर-
प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे ।
मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी-
• सम्मुह्यज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ ८१ ॥