पृष्ठम्:शिवलीलार्णवः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
शिवलीलार्णवे


अत्रान्तरे भक्तमनुग्रहीतुमालोच्य कारुण्यनिधिर्महेशः ।
भयानकां दुर्ललितैस्तरङ्गैः प्रावर्त्तयद् वेगवतीमकाण्डे ॥ ५५ ॥
सा निष्पतन्त्येव पुरं समस्तं कल्लोलजालैः कबलीचकार ।
संरुध्य ये मन्त्रिणमभ्यहिंसन् सम्भ्रम्य दूरे परिदुद्रुवुस्ते ॥ १६ ॥
पूरेण तस्याः पुरशासनस्य कारुण्यपूरेण विनिर्यतेव ।
निर्मोचितो वातपुरीश्वरोऽपि हालास्यनाथान्तिकमाससाद ॥ १७ ॥
तां बध्यमानां शतशोऽपि मर्त्यैः पात्रोदरे वेगवतीममान्तीम् ।
आलक्ष्य बन्धुं नृपतिः स पौरानाबालवृद्धाङ्गनमादिदेश ॥ ५८ ॥
बध्नत्सु पौरेषु विभज्य सीमामापूपिकी काचिदतीव जीर्णा ।
निर्बध्यमाना नृपतेर्भुजिष्यैर्विचिन्वती कर्मकरं चचार |॥ ५९ ॥
सा पिष्टकानेव सदा पचन्ती निवेदयन्ती मनसा महेशे ।
तद्विक्रयेणापि च वर्त्तयन्ती दयास्पदं भूतपतेर्बभूव ॥ ६० ॥
गवेषयन्ती जरती समन्ताद् गवेष्यमाणं निगमैः समस्तैः ।
ऐक्षिष्ट सा कर्मकरं युवानमंसोपरिन्यस्तखनित्रमेकम् ॥ ६१ ॥
तामाह वृद्धामभिगम्य देवः किं कर्म कुर्यो तव शंस मातः! ।
अनाश्रयः कर्मकरो जनानामासे चिरादत्र हि नाथकामः ॥ ६२ ॥
आपूपिकीं किं धनमर्थयिष्ये भक्ष्येण मे कर्मकृतो हि भाव्यम् ।
विक्रीय पूर्णान् वितरत्वपूपान् क्षामानथामाञ्च्छिथिलांश्च मह्यम् ॥ ६३ ॥
कियानयं वेगवतीनिरोधः कियानयं राजभटानुरोधः ।
प्रतीहि मातः ! पच पिष्टकं त्वं विन्यस्य भारं मयि वीतशङ्का ॥ ६४ ॥
आमन्त्रणैरेव विमोहयंस्तामम्बेति देवीति पितामहीति ।
विस्रंसयन्नूष्मलमूष्मलं स जग्राह तत् सर्वमपूपजातम् || ६५ ।।
जगौ जहास प्रणनर्त्त चित्रं ववल्ग वल्गूनि वचांस्यभाणीत् ।
व्यासञ्जयन् कर्मकृतः समस्तान् विस्रब्धमेको विजहार देवः ॥ ६६ ॥
इदं खनित्रं पिटकोऽयमेष राशिमृदामद्य मयोपनीतः ।
पश्येति राज्ञो गणकान् समेतान् प्रसारयंस्तानहसीन्निवृत्तान् ॥ ६७ ॥
उच्छृङ्खलैरूर्मिभिरुत्पतन्तीं भूयोऽप्यमान्तीं तयोः सवन्तीम् ।
भीता भटा भूमिभुजे शशंसुः पाण्ड्योऽपि तां प्रेक्षितुमाजगाम ॥ १८ ॥