पृष्ठम्:शिवलीलार्णवः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
एकविंशः सर्गः ।


उदात्तेष्वारोहन् प्रसभमनुदात्तेष्ववतर-
ञ्छनैः क्रामन्नेव स्वरितपथमेकश्रुतिमपि ।
समुद्यन्मीमांसाद्वयमयखली नै कविधृतः
पुरः प्रादुर्भूतः पुरमथितुराम्नायतुरगः ॥ ४३ ॥
तत्र कञ्चिदतिचित्रतेजसं सादिनं प्रपतनप्रसादिनम् ।
पश्यति स्म बहुमानविस्मयस्मेरदृष्टिररिमर्दनो नृपः ॥ ४४ ॥
व्रीडानुतापव्यथितोऽथ पाण्ड्यः प्रकाशयन् वातपुरीशमग्रे ।
समीपमासेदुषि सादिवर्ये प्रत्युद्ययौ तेन समं प्रहृष्टः ॥ ४५ ॥
कृतप्रणामेन कृतप्रणामः स्तुवन् नृपेण स्तुवता स भूयः ।
कृताः कथाः काश्चिदथान्ततोऽश्वान् विक्रीय यच्छन्निदमाचचक्षे ॥ ४६ ॥
आनतिमासीद् धनमश्वहेतोरनेन यत् ते सचिवेन राजन् ! |
तत् सर्वमादाय तवैव भूत्यै मयाहृताः पश्य शिवास्तुरङ्गाः ॥ ४७ ॥
गुल्मेषु कुञ्जेषु वनोदरेषु केदारकेषूपवनेषु चामी ।
स्वच्छन्दचारा लघुविक्रमाश्च तरन्ति तोयेष्वपि दुस्तरेषु ॥ ४८ ॥
न श्वोऽयमस्तीति किलाश्वशब्दस्तन्त्रैर्निरुक्तो विदितस्तवापि ।
सम्यक् परीक्ष्य त्वमिमं गृहाण धनं ममैतत् तुरगास्तवेमे ॥ ४९ ॥
तथेति तस्य प्रतिनन्द्य वाचं तं भूषणैर्हेमभिरम्बरैश्च ।
सम्भाव्य सद्यो विसृजन् नृपालस्तृप्तिं न लेभे तुरगान् स पश्यन् ॥ ५० ॥
आज्ञापिता द्रागरिमर्दनेन पाण्ड्येन भृत्याः परितो भ्रमन्तः ।
बबन्धुरश्वानथ मन्दुरासु सार्धं विनीतैस्तुरः पुराणैः ॥ ५१ ॥
परेद्युरश्वावसथे नियुक्ताः प्रातः समैक्षन्त नृपालभृत्याः ।
समन्ततोऽश्वान् दशतः पुराणान् शब्दायमानाञ् शतशः सृगान् ॥ ५२ ॥
आकर्ण्य वृत्तं महदद्भुतं तत् पाण्ड्यः प्रजज्वाल रुषा स भूयः ।
इत्थं किलेदं कृतमिन्द्रजालमनेन नूनं मयि मन्त्रिणेति ॥ ५३ ॥
दुष्टैः स्वतो राजनिदेशरूक्षैः कदर्थितो राजभटैः स भूयः ।
आत्मानमात्मन्यनुसन्दधानो न क्केशलेशं गणयाम्बभूव ॥ १४ ॥