पृष्ठम्:शिवलीलार्णवः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
एकविंशः सर्गः ।


व्यासज्जसे किमधुना विधिकेशवाद्यै-
र्व्यासज्जसे किमथवा ललितैर्भवान्याः ।
क्रन्दन्ति कत्यशरणा इह माहशोऽन्ये
कर्णातिथिर्भवतु कस्य तवार्त्तनादः ॥ २७ ॥
बद्धस्य दुष्परिहरैर्मलकर्ममाया-
बन्धैस्त्रिभिर्मम चिरादपि दीनबन्धो ! ।
बन्धं हरिष्यसि किलेति घृतक्षणस्य
बन्धं तुरीयमपि हा कथमद्य दत्से ॥ २८ ॥
कर्मेति काल इति वापदिशन्ति येऽन्ये
किं तैरिति त्रिजगतीं तृणवद् विचिन्त्य ।
त्वामेव संश्रितवतोऽपि दशा यदीयं
त्वं बुध्यसे क्कनु भवत्ययशो यशो वा ॥ २९ ॥
नाहं बिभेमि नृपतेर्नच तद्भटेभ्यः
कुर्वन्ति नाम किममी परतोऽपि मृत्योः ।
इत्थं कृतान्तवशगेऽपि हि मय्युपेक्षा
किं ते भवेदिति विषदति किन्तु चेतः ॥ ३० ॥
एकं विधेयमवलम्बनमित्युपेक्ष्य
नीतिं श्रितोऽस्मि चरणौ तव चन्द्रमौले ! |
आतः किमित्थमियमापदि मे महत्या-
मन्योन्यदत्तभरयोरनयोरुपेक्षा ॥ ३१ ॥
किं ज्ञानयोगविभवैः शिव! किं तपोभिः
किं कर्मभिश्च हृदयं तव रञ्जययम् ।
क्रन्दलुठत्कृपणदर्शनकौतुकं वा
निर्वर्त्त्य दास्यपदवीं तव निर्वहेयम् ॥ ३२ ॥
प्रारब्धकर्माणि चलत्यविलङ्घनीये
भक्तिः करिष्यति किमीशपदार्पितेति ।
दुर्निश्चयो हतधियामिह दुःश्रवोऽयं
निन्देव ते मनसि मे परिवर्तमानः ॥ ३३ ॥