पृष्ठम्:शिवलीलार्णवः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
शिवलीलार्णवे


कालेन केनापि तु कारणेन देवीं क्वचिद् दाशकुलेऽवतीर्णाम् ।
पाणौ ग्रहीष्यन् प्रमथाधिनाथस्तीरं ययौ दक्षिणवारिराशेः ॥ ७७ ॥
स दाशमाशंसितकन्यकावरं समेत्य देवो मधुरेश्वरो युवा ।
सुतां ययाचे स्वयमुद्गिरन् गिरा स्वमद्भुतं वागुरिकत्वकौशलम् ॥ ७८ ॥
अदृष्टचरमद्भुतं वपुरमुष्य पश्यन्नपि
प्रभावमवधारयन्नपि ततः स्फुटं धीवरः ।
परीक्षितुममुं पुनर्जलघिगर्भसञ्चारिणं
मया समुपदर्शितं मकरमाहरेत्यादिशत् ॥ ७९ ॥
आसाद्य वैसारिणतां चरन्तमम्भोनिधौ नन्दिनमात्मशापात् ।
सन्दर्शितं दाशकुलेश्वरेण सानन्दमालोकत चन्द्रचूडः ॥ ८० ॥
महामायाजालं महदपि निजं स्वप्रपदनाद्
विजित्य स्वच्छन्दं पयसि विहरन्तं जलनिधेः ।
ग्रहीतुं शैलादिं किल करुणया वागुरिकया
विशालं चिक्षेप त्रिपुरमथनो जालमुदधौ ॥ ८१ ॥
तद्भक्तिवागुराबद्धस्तरुणेन्दुशिखामणिः ।
आक्षिप्य करुणाजालमाचकर्ष तमर्णवात् ॥ ८२ ॥
मीनमहायापि कृतप्रवृत्तिं मृगाकमौलिं वनितादरेण ।
पश्यन्ननङ्गो विजयध्वजं स्वं प्रायेण चक्रे तदुपक्रमं तम् ॥ ८३ ॥
आसाद्य सञ्चरं देहमागमान्वेषणोचितम् ।
आलुलोके परं तत्त्वमागमान्विष्टमैश्वरम् ।। ८४ ।।
पर्युपासितपादोऽयं प्रकृतिस्थेन नन्दिना |
कैवर्त्तकन्यां जग्राह कैरवप्रियशेखरः ॥ ८५ ॥
समुत्सृजन् स मत्स्यतां ननन्द नन्दिकेश्वरः
स धीवरश्च भूतले सुधीवरत्वमागतः ।
विमानमागमय्य तां समागते पुरं शिवे
तदा तदाशये मुदं ददाश दाशकन्यका ॥ ८६ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णव विंशः सर्गः ।

 १. तं मीनम् २ सञ्चर देहम् । 'देहम्' इति पदं तु 'दिव्यं' इति पठनीय स्यात् । कर्ता तु नन्दी गम्यः । अन्यथा ‘सञ्चरम्' इत्यस्य स्थाने 'स चिरं' इति वा 'स चिराद्' इति वा पाठः स्यात्.