पृष्ठम्:शिवलीलार्णवः.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
विंशः सर्गः ।


अज्ञानमस्य कवितापदसम्प्ररूढ-
माद्यः कविः शमयितुं कलशोद्भवेन ।
उद्बोधयन् द्रमिडसूत्ररहस्यसार-
मुच्चैर्यशो जगति कीरकवेर्व्यतारीत् ॥ ६६ ॥
अधीत्य कीराद् द्रमिडागमार्थमथापरे सङ्घकविप्रवेकाः ।
वृत्तीर्विचित्राः स्वयमारचय्य पस्पर्धिरे ते तु परस्परेण ॥ ६७ ॥
स्वस्य प्रबन्धोत्तममध्यमत्वे संशय्य सर्वे कृतसंविदस्ते ।
सर्वज्ञमीशं शरणं प्रपन्नास्तस्मिन्नतिष्ठन्त कृतप्रणामाः ॥ ६८ ॥
आविर्भूय ततो लिङ्गादाह तान् मधुरेश्वरः ।
तदीयेषु प्रबन्धेषु तारतम्यविवेचने ॥ ६९ ॥
अस्ति रुद्र इति ख्यातो वैश्यः स्कन्दांशसम्भवः ।
शापान्मे मूकतां प्राप्तः स वश्छेत्स्यति संशयम् ॥ ७० ॥
शृण्वतस्तस्य यां हर्षात् स्यन्दते बाष्पनिर्झरः ।
सकण्टकानि चाङ्गानि सा वृत्तिर्गृह्यतामिति ॥ ७१ ॥
तदनु तमुपगम्य श्रावयन्तः स्वसूक्तीः
पृथगुपचितबाष्पाः कण्टकोद्भेदरम्याः ।
कपिलभरणकीरैः कल्पिता एव वृत्ती:
परिजगृहुरथान्यास्तत्यजुर्दूरतस्ते ॥ ७२ ॥
दिवं गते चम्पकपाण्ड्यदेवे ततश्चिरात् कोऽपि तदन्ववाये ।
राजा कवीनामपि पार्थिवानां राजा कुलेशो धरणीं बभार ॥ ७३ ॥
अथ सङ्घिषु कस्यचित् कवेरवमेने स यदा सरस्वतीम् ।
मधुराधिपतेर्मनस्यभूत् प्रतिघो भक्तदयानिधेस्तदा ॥ ७४ ॥
कदम्बमूलमुत्सृज्य कविभिः सह शङ्करः ।
स्थानमुत्तरहालास्यं प्राप वेगवतीतटे ॥ ७५ ॥
क्षितिपतिरथेशानं जानन् रुषा परिनिर्गतं
4 कविकुलमशेषं (कविभिः सह शङ्करः ।)
प्रतिनवसुधाधारासारास्पदैर्वचनैः स्तुवन्
नगरमनयद् भूयः श्रेयस्करं जगतां हरम् ॥ ७६ ॥