पृष्ठम्:शिवलीलार्णवः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
शिवलीलार्णवे


कविष्वेकीभूय स्वयमपि हरः सङ्घिषु चरन्,
कथाः कुर्वन् हृद्याः स्वयमपि वसन् सङ्घफलके ।
वृतस्तैः स्वामित्वे विविधरचनाभिर्भणितिभिः
कदाचिद् गौरीशः कलहमभजत् कीरकविना ॥ ५५ ॥
अविश्रान्ते स कीरेऽस्मिन्नाक्षेपाभासदुर्ग्रहात् ।
प्रादर्शयत् स्वमात्मानं पञ्चवक्रं त्रिलोचनम् ॥ १६ ॥
भक्तोऽपि करिः परमाद्भुतं तत् पश्यन्नपि प्रत्युत दुर्बभाषे ।
मौढ्यान्निरूढादपि पामराणां मौढ्यं चिदाभासगतं गरीयः ॥ ५७ ॥
चतसृष्वपि दिक्षु पश्यता चतुरेणापि महेश्वर ! त्वया ।
कविकर्मणि नैक्षि दूषणं कथमुद्भावितमप्यहो मुहुः ॥ ५८ ॥
भावत्क्यः कृतयः श्रुतिः श्रुतिरिति प्रौढिं परां प्रापिता
अध्याहारविपर्ययप्रकरणोत्कर्षानुषङ्गादिभिः
तात्पर्यान्तरवर्णनेन च समर्थ्यन्ते यदस्मादृशै-

स्तज्जानन् कवितासु नः पशुपते ! दोषेक्षिकां मा कृथाः ॥ ५९ ॥
ईश! त्वमसि ननु ध्रुवर्मीशानः सर्वविद्यानाम् ।
कीरकृते त्वाक्षेपे कीरवदनुभाषणं ज्यायः ॥ ६० ॥
ज्ञानाज्ञानव्यतिकरपरीणाममीशोऽस्य पश्यन्
भक्ताज्ञानप्रशममकृतं चिन्तयित्वा स्वमागः ।
कालेनास्य स्मृतिकलुषतामुद्दिधर्पुस्तिरोऽभू-
देतावन्तो यदि हि न गुणाः कः स नश्चन्द्रचूडः ॥ ६१ ॥
शिवातिवादप्रभवेन पाप्मना स तापितो दुर्विषहेण दुर्मतिः ।
पपात गाङ्गेयपयोजिनीजले तदेव जानन्नभिषज्यभेषजम् ॥ ६२ ॥
नित्याधमर्णस्य सकृत्प्रणत्या नीपाटवीसन्निहितस्य धाम्नः ।
कारुण्यतः सञ्जनितानुत।पम्तुष्टाव कीरस्तुहिनांशुचूडम् ॥ ६३ ॥
अपि प्रणेता निगमागमानामाद्यः कविस्तस्य तुतोष सद्यः ।
विज्ञानखद्योतत्रिजृम्भिताभिर्वाग्भिः स लुभ्यन् गुणगन्धतोऽपि ॥ ६४ ॥
उत्तार्यमाणे कनकाम्बुजिन्याः कीरे करालम्बसमर्पणेन ।
उत्तारितं तं भवसागरादप्यूहाम्बभूवुर्मुनयः पुराणाः ॥ ६५॥