पृष्ठम्:शिवलीलार्णवः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
विंशः सर्गः ।


उच्चावचाभिरपि भङ्गिभिरुल्लिखन्तो
नाद्राक्षुरस्य हृदयं कवयो महान्तः ।
आसाद्य कश्चन वटुः पुनरादिशैवः
पद्यं प्रभोरधिसभं पठति स्म हृद्यम् ॥ ४४ ॥
तस्मै किलार्थितवते सुचिरं प्रसाद्य
दारक्रिंयार्थमधनाय धनं समग्रम् ।
पद्यं ददौ नृपतिभावनिबन्धहृद्य
मार्यामयं तदखिलाशयविन्महेशः ॥ ४५ ॥
जानासि पुष्पगन्धान् भ्रमर! त्वं ब्रूहि तत्त्वतो मेऽद्य ।
देव्याः केशकलापे तुल्यो गन्धेन किं गन्धः ॥ ४६ ॥
इति तावदिमामार्यामिन्दुकलाभरणवदननिर्गलिताम् ।
पठति द्विजे सभायां प्रभोरभूद् विम्मयो भूयान् ॥ ४७ ॥
तदनुज्ञया स वर्णी तत् कनकं सदसि यावदादत्ते ।
तावत् तदसहमानः प्रत्यवतस्थे कविः कीरः ॥ ४८ ॥
अपरिष्कृते प्रसूनैरस्ति कचेऽपि किससृङ्मले गन्धः ।
किं चिन्तितमवनिभृता किं दृष्टं धीमता भवता ॥ ४९ ॥
इति तस्य दुराक्षेपादप्रतिभे ब्रह्मचारिणि स्तब्धे ।
प्रादुर्भूयाह हरः कविवेषधरः पुरस्तेषाम् ॥ ५० ॥
केन कुधिया सभायामन्तेवासी ममायमाक्षिप्तः ।
प्रकृतिः सा पद्मिन्याः पङ्कजगन्धः शरीरे यः ॥ ५१ ॥
पार्थिवकुसुमविहीन भवति शचीकुन्तले कथं गन्धः ?
कः शङ्कितोऽप्युपाधिः क्रमते कबरीपरीमले गौर्याः ॥ ५ ॥
कार्मणमलात्ममूर्त्तिषु घटते यदि पार्थिवेषु सौरभ्यम् ।
किमिव खलु पद्मिनीनामपकृतमसृजां मलैः केशैः ॥ ५३ ॥
इति विजित्य तमुद्धतमुद्रतैः कविवरे परिगर्जति भाषितैः ।
अलभत द्रविणं स वटुर्झटित्यवानपोऽप्यवरोधगृहं ययौ ॥ ५४ ॥