पृष्ठम्:शिवलीलार्णवः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
शिवलीलार्णवे


एकत्र विस्रम्भकथाविघातः पक्षोऽपरः शङ्कितुमेव नाहः ।
कृच्छ्रे तदस्मिन्नधरं कृशाङ्गया गृह्णातु वा मुञ्चतु वा युवायम् ॥ ३२ ॥
दष्टाधरोष्ठा सुदृढं पुरैव पत्युः पुनश्चुम्बनलालसस्य |
चाटूसहस्रं शपथाञ्छतं च तन्वी विशश्वास न लेशतोऽपि ॥ ३३ ॥
आबद्धसप्ताष्टनिषङ्गमन्वगासञ्जितद्वित्रकराङ्गुलित्रम् ।
आमर्दितैकद्विशरासमासीदन्यादृगूष्मातिमङ्गजस्य || ३४ ॥
विन्यस्य गाढं भुजयोर्भुजौ सा मुखं मुखे वक्षसि चापि वक्षः ।
आलिङ्गति स्म स्मरबाणवर्षादाच्छादयन्तीव तनुं प्रियस्य ॥ ३५ ॥
सकृन्नखाग्रोल्लसितः कचौघः श्लथाश्लथं संयमिता च नीवी ।
सा चाङ्गयष्टिर्मृदिता तरुण्याः सत्यं मुनीनानामपि मोहहेतुः ३६ ॥
एकाकिना तामपहाय लज्जा याता पुरा यत् किल मारयुद्धे ।
ततोऽपराधादिव तामुपेतां पुरेव तन्वी न पुरश्चकार ॥ ३७॥
सा गन्तुमैच्छच्छयितुं स काल्ये साधत्त संव्यानमयं जहार ।
सा नीविमामुञ्चदयं व्यमुञ्चद् भावेऽपि तुल्ये बिभिदे क्रियाभिः ॥ ३८ ॥
ससर्ज तस्यां कियतो विलासांश्चक्रे कथं नाम निशां त्रियामाम् ।
शृङ्गारसारं कलयापि वेधाः किं वेद वेदाक्षरजीर्णकोशः ॥ ३९ ॥
अनन्यजे वर्षति काममित्थमपव्यवस्थं शरमण्डलानि ।
आदिर्निशादिः सुरतस्य यूनोरन्तो निशान्तोऽपि च पर्यणसीत् ॥ ४० ॥
स जातु प्रासादे शयनमधिगच्छन् क्षितिपतिः
समाजघ्रौ गन्धं कुसुमकुलदुष्प्रापमतुलम् ।
महिष्याः पद्मिन्या मलयपवमानैरुपहृतं
प्रसूतं केशान्तात् प्रशिथिलदृढग्रन्थिशिथिलात् ।। ४१ ॥
पद्मसौरभ्यजातीयं पद्मिनीकेशसम्भवम् ।
अनाघ्रातचरं गन्धमवासासीत् स त नृपः ॥ ४२ ॥
मनोगतं मे कवयत्यवेत्य यः स एतदग्रयं लभतां सुधीरिति ।
अलम्बयद् द्वारि सुवर्णमुद्रिकासहस्रमाबध्य स पाण्ड्यभूपतिः ॥ ४३ ॥