पृष्ठम्:शिवलीलार्णवः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
विंशः सर्गः ।


तत्तत्सैद्धान्तिकोक्तीरभिदधत इव क्वाप्यनाघ्राततत्त्वा
दृश्यन्ते केचिदेते शिव शिव कुधियामेष सर्गोऽद्भुतस्ते ॥ २० ॥
काव्यागमज्ञाः सुखमाक्षिपन्तु का तत्र चिन्ता भवतः प्रसादात् ।
अहो वयं प्रव्यथिता अमभिः काव्याध्वदुष्टश्वभिरेडमूकैः ॥ २१ ॥
दन्तोल्लेखनखक्षतादिदयितव्यापारपारम्परी-
निर्ग्लीनापि हि कामिनी दिनमुखे निस्सीममानन्दति ।
मार्जारी नखराङ्कुराखुदशनव्याविद्ध्यमाना मना-
गायुर्वेद विदोऽभिगच्छति रुदत्यासन्नमृत्युर्यथा ॥ २२ ॥
तदलं तरुणेन्दुचूड! नः परितापार्त्तिपरीक्षयानया ।
परिवर्जय पण्डिंताधमैरिदमैकाधिकरण्यमद्य नः ॥ २३ ॥
विज्ञापितः कविवरैरिति सुन्दरेशः
स्मित्वा ददौ फलकमेकमदृष्टपूर्वम् ।
यत्रासते कवय एव यथाभिलाप-
मन्ये तु नाङ्घ्रिमपि विन्यसितुं क्षमन्ते ॥ २४ ॥
अध्यारूढाः पीठमीशादवाप्तं दुर्दर्श तद् दुर्धियां दूरतोऽपि ।
अष्टाचत्वारिंशदाद्याः कवीन्द्राश्चक्रुर्भक्तिं भूयसीं चन्द्रचूडे ॥ २५ ॥
वंशचूडामणिः पाण्ड्यो वंशशेखरकस्ततः ।
जज्ञे यत्र भुवं न्यस्य जज्ञौ स परमामृतम् ॥ २६ ॥
स तु कदाचन चम्पककोरकैः परिचरन् प्रमथाधिपतिं मधौ ।
अजनि चम्पकपाण्ड्य इति प्रथामभिवहन् कविलोकशिखामणिः ॥ २७ ॥
स कामिनीरत्नसहस्रभोगभाग्योन्नतश्चम्पकपाण्ड्यदेवः ।
मासे मधौ मन्मथमारराध नवोढया नर्मपरो महिष्या ॥ २८ ॥
अपारयन्ती त्रपया गलन्ती नीवीं नियन्तुं समुपेक्षितुं वा ।
पत्युर्मुखं नाभिपदं च बाला पर्यायतः केवलमालुलोके ॥ २९ ॥
आलिङ्गितुं चुम्बितुमन्ततस्तं स्प्रष्टुं समाभाषितुमीक्षितुं वा ।
नायै ददौ नावसरं कदाचिद् व्रीडा सपत्नीव निबद्धवैरा ॥ ३० ॥
आच्छाद्य बिम्बाधरमङ्गुलीभिराबद्धमुग्धाञ्जलिना करेण ।
मा मेति मन्दाक्षरमर्थितं यदतः किमस्या मधुरोऽधरोष्ठः । ३१ ॥