पृष्ठम्:शिवलीलार्णवः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
शिवलीलार्णवे


अथान्य एव कल्प्यन्ते गुणदोषा निजेच्छया ।
काकदन्ताः परीक्ष्यन्तां गृह्यन्तां ग्राम्यसूक्तयः ॥ ९ ॥
तत्र तत्र पुराणेषु तन्त्रेषु च यदि स्फुटम् ।
काव्यालापानुवादोऽस्ति का जिगीषा ततोऽपि वः ॥ १० ॥
सर्वा वाचो वदन्तीति सप्ततन्तौ महाव्रते ।
ग्राम्योक्तयोऽपि किं शास्त्रे ऋत्वङ्गत्वेन नोदिताः ॥ ११ ॥
अयोग्यानां हि काव्यानामग्निसेकादिवाक्यवत् ।
मूकतैव हि दुर्भेदा मुह्यन्त्येषु कथं जनाः ॥ १२ ॥
कथञ्चिद्यदि सार्थक्यं कथञ्चित्तैव दूषणम् ।
सफलः क्लेश इति च सम्प्रदायागतो भ्रमः ॥ १३ ॥
अक्लेशेन फले लभ्ये न क्लेशो युक्तिमर्हति ।
यस्मै फलाय सा गौणी तदेव स्फुटमीर्यताम् ॥ १४ ॥
अर्थानपि व्याप्नुवती हतसर्वनियन्त्रणा ।
व्यञ्जना शब्दवृत्तिश्चेद् वेश्या पत्नी न किं भवेत् ॥ १५ ॥
धूमेन ध्वन्यतां वह्निश्चक्षुषा ध्वन्यतां घटः ।
अर्थश्चेद् ध्वनयेदर्थ का प्रमाणव्यवस्थितिः ॥ १६ ॥
दुःखतोऽपि तु काव्यक्तिः सुखायार्थो भवेद्यदि ।
सुखं भवन्तः शृण्वन्तु स्वनिन्दां कविभिः कृताम् ॥ १७ ॥
अहो भावव्यक्तेः परिणतिरहो गूढरस इ-
त्यलीकव्यामीलन्नयनविगलद्वाष्पसलिलैः ।
उदञ्चद्रोमाञ्चैरुदरलुलितामैरिव मुहुः
कथं व्याप्ता भूमिः कावभिरपटुज्ञानपशुभिः ॥ १८ ॥
इति निगदितमेवाभीक्ष्णमावर्त्तयद्भिः
प्रतिकथकवचांसि काप्यनाकर्णयद्भिः ।
अपथचिरविनीतर्बालिशैरात्तगन्धाः
शरणमभिसमीयुश्चन्द्रचूडं कवीन्द्राः ॥ १९ ॥
नान्धाश्चक्षुस्समेता न च खलु बधिरा आक्षिपन्तः परोक्तीः
नाप्येते नाथ! मूका विफलमविरलं यत् तदुच्चैः स्वनन्तः ।