पृष्ठम्:शिवलीलार्णवः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
विंशः सर्गः ।


धनुर्धरेष्वेकतमो भवन् हरः शितैः शरैरौघैः शिवनामलाञ्छितैः ।
अवाकिरत् सैन्यमदृश्यपातिभिर्विशृङ्खलं विक्रमचोलभूपतेः ॥ ८५ ॥
अनुग्रहं स तमनवग्रहं विभोर्विचिन्तयन् क्षितिभृति वंशशेखरे ।
परित्यजन् गजतुरगान् पलायितो विना रणं कियदपि चोलभूपतिः ॥ ८६ ॥
पराक्रमेणाप्रतिमेन पार्थिवान् गिरा सुधासारकिरा कवीनपि ।
जयन्नयं सप्तसमुद्रमुद्रितां बभार पृथ्वीं मधुरेश्वरार्पिताम् ॥ ८७ ॥

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णव एकोनविंशः सर्गः ।


अथ विंशः सर्गः ।

कपिलकीरमुखाः कवयस्ततः कतिचिदासत ताम्रनदीतटे ।
द्रुहिणशापवशाज्जननी गिरामवततार पुरा हि यदात्मना ॥ १ ॥
अथ चतुर्गुणिता द्व्यधिका दश त्रिदशदेशिकधिक्करणक्षमाः ।
प्रति ययुर्मधुरामभिवन्दितुं प्रमथनाथममी कविपुङ्गवाः ॥ २ ॥
कविशरीरभृता कवयस्तु ते समधिगम्य हरेण पुरस्कृताः ।
समवगाह्य सुवर्णसरोजिनीं ददृशुरद्विसुतादयितं महः ॥ ३ ॥
दृढविनीतधियः सुधियस्तु ते द्रमिडसूत्ररहस्यविवेचने ।
मृदुसुगन्धिवचःकुसुमस्रजा विविधया मधुरेशमपूजयन् ॥ ४ ॥
अकवयः कतिचिद् विबुधाधमाः कुकवयश्च परे कृतसंविदः ।
कविभिरप्रतिमैर्भुवनेषु तैः कलहमादघिरेऽथ वितण्डया ॥ ५ ॥

शब्दार्थौ दोषनिर्मुक्तौ सालङ्कारौ गुणोत्तरौ ।
काव्यमातिष्ठमानेभ्यः कविभ्योऽयं कृतोऽञ्जलिः ॥ ६ ॥
आद्यं हि शब्ददोषाणामसाधुत्वं मतं च वः ।
स्वरमश्रद्दधानानां स्वरूपे केव साधुता ॥ ७ ॥
काव्यार्थादपि किं दुष्टं कामिदुश्चरितोत्तरात् ।
अत एव हि काव्यानामालापः सद्भिरुज्झितः ॥ ८ ॥