पृष्ठम्:शिवलीलार्णवः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
शिवलीलार्णवे


ततः क्षितौ कथमपि धाम शाङ्करं तदेकमक्षतमभिजानतामुना । .
सरिद्गिरिस्थलसरिदीश्वरादिकं सुमेधसा निखिलमकल्पि वेधसा ॥ ७२ ॥
ततः सृजन् स विबुधमर्त्त्यभोगिनो निवेशयन् निजनिजधामसु स्थिरम् ।
प्रवर्त्तयन् सुपरिचितेषु कर्मसु व्यधत्त तच्छयितमिवोत्थितं जगत् ॥ ७३ ॥
ततश्चिरादजनि तु वंशशेखरो महीपतिर्द्वमिडकुलेषु कश्चन ।
प्रभुत्वमावहत स पाण्ड्यमण्डले महेश्वरार्पितहृदयो महाशयः ॥ ७४ ॥
स सुन्दरेश्वरसदनैकशेषिणी भजन् पुरी भुवि मधुरेति विश्रुताम् ।
निवेशयन् क्वचिदपि काश्चन प्रजाः कचित् स्वयं न्यविशत कल्पितालयः ॥ ७५
दिनेदिने मदनजितः सपर्यया समृद्धया स धरणिवल्लभश्रिया ।
यथापुरं पुरमचिकच्छ्रितैः समन्ततो नृपगृहसालगोपुरैः ॥ ७६ ॥
स वेदितुं पुरपरिमाणमुत्युको जडे जगत्यविदिततत्पुरस्थितौ ।
दृढव्रतो द्रमिडकुलाब्धिचन्द्रमाः समाहितः शरणयति स्म शङ्करम् ॥ ७७ ॥
कृपानिधिस्तदनु शशाङ्कशेखरः कृतादरः क्षितिभृति वंशशेखरे ।
प्रदर्शय स्थलपरिमाणमित्यशाद् विभूषणं भुजगवरं विनिक्षिपन् ॥ ७८ ॥
स पुष्पकाननभुवि वालमर्पयन् प्रदक्षिणं परिचलितः फणीश्वरः ।
शिरस्पदं पुनरपि तत्र योजयन्नदर्शयत् पुरपरिमाणमद्भुतम् ॥ ७९ ॥
हरित्स्वसौ चतसृषु पुष्पकाननं गुहाचल भुजगगिरिं वृषाचलम् ।
अनुक्रमादहितिलकः प्रदर्शयन् द्वियोजनं पुरमवदत् समन्ततः ॥ ८० ॥
तिरोहिते पुरहरभूषणोरेगे तदाकृतिं वरणमय प्रकल्पयन् ।
विशङ्कटैर्विपणिपर्थैः शिरोगृहैरलङ्कृतं पुरमकरोद् यथापुरम् ॥ ८१ ॥

हालाहलाम्यपरिवेष्टनलब्धसीमं
हालास्यमित्यभिधया नगरं तदासीत् ।'
भोगाभिवेष्टिततयापि च भोगभूमिः
कैवल्यभूरपि बभूव महीविभागे ।। ८२ ।।

आसादयन्नश्वपतिं सहायमथैकदा विक्रमचोलदेवः ।
विचार्य विस्रब्धममुं नृपालमायोधनायोपजगाम सैन्यैः ॥ ८३ ॥
अतर्कितासन्नमरातिसैन्यमाकर्णयन् पाण्ड्यनृपो विशङ्कः ।
कृताभ्यनुज्ञो मधुरेश्वरेण जयं करस्थं कलयन् प्रतस्थे ॥ ८४ ॥